Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 41

Araṇyakaparva (Vanaparva) Adhyāya 41

अरण्यकपर्व • अध्यायः 41

Araṇyakaparva (Vanaparva) Adhyāya 41 of the classical Mahābhārata with 27 verses.

Total: 27 Verses • Citations: MBh 3.41.1–27 • 250 Lexicon Terms
नरस्त्वं पूर्वदेहे वै नारायणसहायवान् । बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ॥
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे । युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ॥
शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् । प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥
एतत्तदेव गाण्डीवं तव पार्थ करोचितम् । मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम । तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ ॥
प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम । गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ॥
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद । दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम ॥
भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज । कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ॥
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् । युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ॥
दहेयं येन संग्रामे दानवान्राक्षसांस्तथा । भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् ॥
यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः । शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः ॥
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च । सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ॥
एष मे प्रथमः कामो भगवन्भगनेत्रहन् । त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ॥
ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् । समर्थो धारणे मोक्षे संहारे चापि पाण्डव ॥
नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् । वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः ॥
न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् । जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ॥
अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे । मनसा चक्षुषा वाचा धनुषा च निपात्यते ॥
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः । उपसंगृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् ॥
ततस्त्वध्यापयामास सरहस्य निवर्तनम् । तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ॥
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् । प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ॥
ततश्चचाल पृथिवी सपर्वतवनद्रुमा । ससागरवनोद्देशा सग्रामनगराकरा ॥
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः । तस्मिन्मुहूर्ते संप्राप्ते निर्घातश्च महानभूत् ॥
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः । मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ॥
स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः । यत्किंचिदशुभं देहे तत्सर्वं नाशमेयिवत् ॥
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः । प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत ॥
ततः प्रभुस्त्रिदिवनिवासिनां वशी; महामतिर्गिरिश उमापतिः शिवः । धनुर्महद्दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम् ॥
ततः शुभं गिरिवरमीश्वरस्तदा; सहोमया सिततटसानुकन्दरम् । विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः ॥
← Previous (Ch. 337) Full Table of Contents Next (Ch. 339) →