Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 40

Araṇyakaparva (Vanaparva) Adhyāya 40

अरण्यकपर्व • अध्यायः 40

Araṇyakaparva (Vanaparva) Adhyāya 40 of the classical Mahābhārata with 62 verses.

Total: 62 Verses • Citations: MBh 3.40.1–62 • 250 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु । पिनाकपाणिर्भगवान्सर्वपापहरो हरः ॥
कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम् । विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ॥
श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् । निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ॥
देव्या सहोमया श्रीमान्समानव्रतवेषया । नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ॥
किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः । अशोभत तदा राजन्स देवोऽतीव भारत ॥
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा । नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ॥
स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः । मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ॥
वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् । हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ॥
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् । सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ॥
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् । तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ॥
तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् । किरातरूपी सहसा वारयामास शंकरः ॥
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः । अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ॥
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः । प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ॥
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः । मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा ॥
यथाशनिविनिष्पेषो वज्रस्येव च पर्वते । तथा तयोः संनिपातः शरयोरभवत्तदा ॥
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव । ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् ॥
ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् । किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा । तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव ॥
को भवानटते शून्ये वने स्त्रीगणसंवृतः । न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ ॥
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः । मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः ॥
कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे । न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि । तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय ॥
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव । उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् ॥
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः । ममैव च प्रहारेण जीविताद्व्यवरोपितः ॥
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः । अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ॥
स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव । घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ॥
ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः । शरैराशीविषाकारैस्ततक्षाते परस्परम् ॥
ततोऽर्जुनः शरवर्षं किराते समवासृजत् । तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः ॥
मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् । अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः ॥
स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनंजयः । परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत् ॥
अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः । गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ॥
← Previous (Ch. 336) Full Table of Contents Next (Ch. 338) →