Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 36

Araṇyakaparva (Vanaparva) Adhyāya 36

अरण्यकपर्व • अध्यायः 36

Araṇyakaparva (Vanaparva) Adhyāya 36 of the classical Mahābhārata with 35 verses.

Total: 35 Verses • Citations: MBh 3.36.1–35 • 250 Lexicon Terms
संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा । अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा ॥
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः । फेनधर्मा महाराज फलधर्मा तथैव च ॥
निमेषादपि कौन्तेय यस्यायुरपचीयते । सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् ॥
यो नूनममितायुः स्यादथ वापि प्रमाणवित् । स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ॥
प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश । आयुषोऽपचयं कृत्वा मरणायोपनेष्यति ॥
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् । प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ॥
यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः । अयातयित्वा वैराणि सोऽवसीदति गौरिव ॥
यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् । अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः ॥
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव । हत्वा द्विषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसु ॥
हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम । अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ॥
अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः । येनाहमभिसंतप्तो न नक्तं न दिवा शये ॥
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे । आस्ते परमसंतप्तो नूनं सिंह इवाशये ॥
योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः । सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति ॥
नकुलः सहदेवश्च वृद्धा माता च वीरसूः । तवैव प्रियमिच्छन्त आसते जडमूकवत् ॥
सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः । अहमेकोऽभिसंतप्तो माता च प्रतिविन्ध्यतः ॥
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन । सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ॥
नेतः पापीयसी काचिदापद्राजन्भविष्यति । यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ॥
शीलदोषाद्घृणाविष्ट आनृशंस्यात्परंतप । क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ॥
घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः । अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ॥
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् । क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् ॥
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् । बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ॥
तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् । छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ॥
अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च । दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया ॥
बृहच्छाल इवानूपे शाखापुष्पपलाशवान् । हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति ॥
इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू । नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ॥
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् । विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ॥
मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः । अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् ॥
तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः । राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः ॥
न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः । अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ॥
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् । आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् ॥
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश । परिमाणेन तान्पश्य तावतः परिवत्सरान् ॥
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः । पूतिकानिव सोमस्य तथेदं क्रियतामिति ॥
अथ वानडुहे राजन्साधवे साधुवाहिने । सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते ॥
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया । क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् ॥
← Previous (Ch. 332) Full Table of Contents Next (Ch. 334) →