Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 34

Araṇyakaparva (Vanaparva) Adhyāya 34

अरण्यकपर्व • अध्यायः 34

Araṇyakaparva (Vanaparva) Adhyāya 34 of the classical Mahābhārata with 86 verses.

Total: 86 Verses • Citations: MBh 3.34.1–86 • 250 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः । निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् ॥
राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् । धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥
नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा । अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः ॥
गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् । आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ॥
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः । अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ॥
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् । अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः । हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥
भवतः प्रियमित्येवं महद्व्यसनमीदृशम् । धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् । आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ॥
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि । भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः । अवीराचरितां राजन्न बलस्थैर्निषेविताम् ॥
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः । न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥
भवान्धर्मो धर्म इति सततं व्रतकर्शितः । कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥
दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् । अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥
स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् । आनृशंस्यपरो राजन्नानर्थमवबुध्यसे ॥
अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः । अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् । सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि ॥
अथ वा वयमेवैतान्निहत्य भरतर्षभ । आददीमहि गां सर्वां तथापि श्रेय एव नः ॥
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् । काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ॥
आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे । अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ॥
कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा । व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् ॥
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् । जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ॥
यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः । न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ॥
यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः । रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ॥
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति । स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥
सततं यश्च कामार्थी नेतरावनुतिष्ठति । मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् । कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥
तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः । प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः । इतरेतरयोनी तौ विद्धि मेघोदधी यथा ॥
← Previous (Ch. 330) Full Table of Contents Next (Ch. 332) →