Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 54

Sabhāparva Adhyāya 54

सभापर्व • अध्यायः 54

Sabhāparva Adhyāya 54 of the classical Mahābhārata with 30 verses.

Total: 30 Verses • Citations: MBh 2.54.1–30 • 250 Lexicon Terms
मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम् । शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः ॥
इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम् । कोशो हिरण्यमक्षय्यं जातरूपमनेकशः । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् ॥
अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः । सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ॥
संह्रादनो राजरथो य इहास्मानुपावहत् । जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः ॥
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः । वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन् । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
सहस्रसंख्या नागा मे मत्तास्तिष्ठन्ति सौबल । हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ॥
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि । ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः ॥
सर्वे च पुरभेत्तारो नगमेघनिभा गजाः । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
तमेवंवादिनं पार्थं प्रहसन्निव सौबलः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः । कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः ॥
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः । मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः ॥
अनुसेवां चरन्तीमाः कुशला नृत्यसामसु । स्नातकानाममात्यानां राज्ञां च मम शासनात् । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
एतावन्त्येव दासानां सहस्राण्युत सन्ति मे । प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ॥
प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः । पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः । हयैर्विनीतैः संपन्ना रथिभिश्चित्रयोधिभिः ॥
एकैको यत्र लभते सहस्रपरमां भृतिम् । युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान् । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः । ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
रथानां शकटानां च हयानां चायुतानि मे । युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः ॥
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः । क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् ॥
षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
ताम्रलोहैः परिवृता निधयो मे चतुःशताः । पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै । एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
← Previous (Ch. 278) Full Table of Contents Next (Ch. 280) →