Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 45

Sabhāparva Adhyāya 45

सभापर्व • अध्यायः 45

Sabhāparva Adhyāya 45 of the classical Mahābhārata with 59 verses.

Total: 59 Verses • Citations: MBh 2.45.1–59 • 250 Lexicon Terms • Page 2 of 2 (Verses 29 shown)
पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम् । स्थापिता तत्र संज्ञाभूच्छङ्खो ध्मायति नित्यशः ॥
मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत । उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ॥
पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः । सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर ॥
यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः । वैश्या इव महीपाला द्विजातिपरिवेषकाः ॥
न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा । गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ॥
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम् । शान्तिं न परिगच्छामि दह्यमानेन चेतसा ॥
यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे । तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम ॥
अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत । हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ॥
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् । आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम् ॥
एवमुक्तः शकुनिना राजा दुर्योधनस्तदा । धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ॥
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् । द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ॥
क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने । तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् । उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ॥
निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति । निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ॥
स मयि त्वं मृते राजन्विदुरेण सुखी भव । भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि ॥
आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः । धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः ॥
स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम । मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः ॥
ततः संस्तीर्य रत्नैस्तामक्षानावाप्य सर्वशः । सुकृतां सुप्रवेशां च निवेदयत मे शनैः ॥
दुर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः । धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै ॥
अपृष्ट्वा विदुरं ह्यस्य नासीत्कश्चिद्विनिश्चयः । द्यूतदोषांश्च जानन्स पुत्रस्नेहादकृष्यत ॥
तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् । विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् ॥
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् । मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ॥
नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो । पुत्रैर्भेदो यथा न स्याद्द्यूतहेतोस्तथा कुरु ॥
क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति । दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः ॥
अशुभं वा शुभं वापि हितं वा यदि वाहितम् । प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः ॥
मयि संनिहिते चैव भीष्मे च भरतर्षभे । अनयो दैवविहितो न कथंचिद्भविष्यति ॥
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे । खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् ॥
न वार्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते । दैवमेव परं मन्ये येनैतदुपपद्यते ॥
इत्युक्तो विदुरो धीमान्नैतदस्तीति चिन्तयन् । आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः ॥
← Previous (Ch. 269) Full Table of Contents Next (Ch. 271) →