Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 44

Sabhāparva Adhyāya 44

सभापर्व • अध्यायः 44

Sabhāparva Adhyāya 44 of the classical Mahābhārata with 23 verses.

Total: 23 Verses • Citations: MBh 2.44.1–23 • 250 Lexicon Terms
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् । भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ॥
अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत् । विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः ॥
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह । सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् ॥
लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते । विवृद्धस्तेजसा तेषां तत्र का परिदेवना ॥
धनंजयेन गाण्डीवमक्षय्यौ च महेषुधी । लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् ॥
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः । कृता वशे महीपालास्तत्र का परिदेवना ॥
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् । सभां तां कारयामास सव्यसाची परंतपः ॥
तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः । वहन्ति तां सभां भीमास्तत्र का परिदेवना ॥
यच्चासहायतां राजन्नुक्तवानसि भारत । तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः ॥
द्रोणस्तव महेष्वासः सह पुत्रेण धीमता । सूतपुत्रश्च राधेयो गौतमश्च महारथः ॥
अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् । एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुंधराम् ॥
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः । एतानेव विजेष्यामि यदि त्वमनुमन्यसे ॥
एतेषु विजितेष्वद्य भविष्यति मही मम । सर्वे च पृथिवीपालाः सभा सा च महाधना ॥
धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः । नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ॥
नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि । महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ॥
अहं तु तद्विजानामि विजेतुं येन शक्यते । युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ॥
अप्रमादेन सुहृदामन्येषां च महात्मनाम् । यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ॥
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् । समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् ॥
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि । त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय ॥
तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् । राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ॥
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय । अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः ॥
त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल । निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् ॥
← Previous (Ch. 268) Full Table of Contents Next (Ch. 270) →