Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 7

Sabhāparva Adhyāya 7

सभापर्व • अध्यायः 7

Sabhāparva Adhyāya 7 of the classical Mahābhārata with 27 verses.

Total: 27 Verses • Citations: MBh 2.7.1–27 • 250 Lexicon Terms
शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता । स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा ॥
विस्तीर्णा योजनशतं शतमध्यर्धमायता । वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता ॥
जराशोकक्लमापेता निरातङ्का शिवा शुभा । वेश्मासनवती रम्या दिव्यपादपशोभिता ॥
तस्यां देवेश्वरः पार्थ सभायां परमासने । आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत ॥
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः । विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ॥
तस्यामुपासते नित्यं महात्मानं शतक्रतुम् । मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः । सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा ॥
एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः । उपासते महात्मानं देवराजमरिंदमम् ॥
तथा देवर्षयः सर्वे पार्थ शक्रमुपासते । अमला धूतपाप्मानो दीप्यमाना इवाग्नयः । तेजस्विनः सोमयुजो विपापा विगतक्लमाः ॥
पराशरः पर्वतश्च तथा सावर्णिगालवौ । शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः ॥
दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः । उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः ॥
हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः । हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ॥
वातस्कन्धो विशाखश्च विधाता काल एव च । अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः ॥
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः । ईशानं सर्वलोकस्य वज्रिणं समुपासते ॥
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः । समीकः सत्यवांश्चैव प्रचेताः सत्यसंगरः ॥
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः । मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः ॥
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः । मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः । संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् ॥
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती । अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव ॥
जलवाहास्तथा मेघा वायवः स्तनयित्नवः । प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः ॥
अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा । भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत ॥
यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः । यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते ॥
तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः । नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि । रमयन्ति स्म नृपते देवराजं शतक्रतुम् ॥
स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा । विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् ॥
ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा । विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः ॥
स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे । बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह ॥
एते चान्ये च बहवो यतात्मानो यतव्रताः । विमानैश्चन्द्रसंकाशैः सोमवत्प्रियदर्शनाः । ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा ॥
एषा सभा मया राजन्दृष्टा पुष्करमालिनी । शतक्रतोर्महाराज याम्यां शृणु ममानघ ॥
← Previous (Ch. 231) Full Table of Contents Next (Ch. 233) →