Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 6

Sabhāparva Adhyāya 6

सभापर्व • अध्यायः 6

Sabhāparva Adhyāya 6 of the classical Mahābhārata with 19 verses.

Total: 19 Verses • Citations: MBh 2.6.1–19 • 250 Lexicon Terms
संपूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् । प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः ॥
भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम् । यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया ॥
राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः । यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् ॥
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो । न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः ॥
एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च । मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् ॥
नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः । अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः ॥
भवान्संचरते लोकान्सदा नानाविधान्बहून् । ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः ॥
ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित् । इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ॥
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् । पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा ॥
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता । सभा मणिमयी राजन्यथेयं तव भारत ॥
सभां तु पितृराजस्य वरुणस्य च धीमतः । कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ॥
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् । यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ ॥
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः । प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः ॥
नारदं प्रत्युवाचेदं धर्मराजो महामनाः । सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् ॥
किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः । पितामहं च के तस्यां सभायां पर्युपासते ॥
वासवं देवराजं च यमं वैवस्वतं च के । वरुणं च कुबेरं च सभायां पर्युपासते ॥
एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव । श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः ॥
एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम् । क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः ॥
← Previous (Ch. 230) Full Table of Contents Next (Ch. 232) →