Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 8

Sabhāparva Adhyāya 8

सभापर्व • अध्यायः 8

Sabhāparva Adhyāya 8 of the classical Mahābhārata with 39 verses.

Total: 39 Verses • Citations: MBh 2.8.1–39 • 250 Lexicon Terms
कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् । वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह ॥
तैजसी सा सभा राजन्बभूव शतयोजना । विस्तारायामसंपन्ना भूयसी चापि पाण्डव ॥
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी । नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी ॥
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् । न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत ॥
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः । रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम ॥
पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः । रसवन्ति च तोयानि शीतान्युष्णानि चैव ह ॥
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः । यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ॥
ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः । त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः ॥
अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः । प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः ॥
ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिर्भवः । चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः ॥
भरतस्तथा सुरथः सुनीथो नैषधो नलः । दिवोदासोऽथ सुमना अम्बरीषो भगीरथः ॥
व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः । रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः ॥
रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी । आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ॥
औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः । अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः संजयो जयः ॥
भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः । करंधमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ॥
कपोतरोमा तृणकः सहदेवार्जुनौ तथा । रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ॥
अलर्कः कक्षसेनश्च गयो गौराश्व एव च । जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा ॥
भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा । वैन्यो राजा वारिषेणः पुरुजो जनमेजयः ॥
ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा । इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः ॥
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् । अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा ॥
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः । धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ॥
शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम् । शंतनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव ॥
उशद्गवः शतरथो देवराजो जयद्रथः । वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा ॥
अथापरे सहस्राणि ये गताः शशबिन्दवः । इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ॥
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः । तस्यां सभायां राजर्षे वैवस्वतमुपासते ॥
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च । यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ॥
अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये । स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे ॥
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः । नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ॥
कालस्य नयने युक्ता यमस्य पुरुषाश्च ये । तस्यां शिंशपपालाशास्तथा काशकुशादयः । उपासते धर्मराजं मूर्तिमन्तो निरामयाः ॥
एते चान्ये च बहवः पितृराजसभासदः । अशक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा ॥
असंबाधा हि सा पार्थ रम्या कामगमा सभा । दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा ॥
प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत । तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ॥
शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा । सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ॥
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः । सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः ॥
गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः । वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ॥
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः । दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः ॥
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् । उपासते महात्मानं रूपयुक्ता मनस्विनः ॥
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः । वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ॥
← Previous (Ch. 232) Full Table of Contents Next (Ch. 234) →