Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 216

Ādiparva Adhyāya 216

आदिपर्व • अध्यायः 216

Ādiparva Adhyāya 216 of the classical Mahābhārata with 35 verses.

Total: 35 Verses • Citations: MBh 1.216.1–35 • 250 Lexicon Terms
एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः । चिन्तयामास वरुणं लोकपालं दिदृक्षया । आदित्यमुदके देवं निवसन्तं जलेश्वरम् ॥
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् । तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् । चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ॥
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते । तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥
कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति । चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् । ददानीत्येव वरुणः पावकं प्रत्यभाषत ॥
ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् । सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च । सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ॥
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् । चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः । प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ॥
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् । उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः । पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ॥
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः । भानुमन्तं महाघोषं सर्वभूतमनोहरम् ॥
ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः । प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ॥
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः । नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ॥
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा । तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ॥
तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः । विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत ॥
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च । नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति ॥
स तं नानापताकाभिः शोभितं रथमुत्तमम् । प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ॥
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । आरुरोह रथं पार्थो विमानं सुकृती यथा ॥
तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा । गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः ॥
हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् । जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥
मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह । येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ॥
लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी । बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ॥
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः । आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ॥
अब्रवीत्पावकश्चैनमेतेन मधुसूदन । अमानुषानपि रणे विजेष्यसि न संशयः ॥
अनेन त्वं मनुष्याणां देवानामपि चाहवे । रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा । भविष्यसि न संदेहः प्रवरारिनिबर्हणे ॥
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु । हत्वाप्रतिहतं संख्ये पाणिमेष्यति ते पुनः ॥
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् । दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ॥
ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ । कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनावपि ॥
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः । किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना ॥
चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् । त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ॥
गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी । अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥
सर्वतः परिवार्यैनं दावेन महता प्रभो । कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च । तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ॥
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा । ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ॥
परिगृह्य समाविष्टस्तद्वनं भरतर्षभ । मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् ॥
दह्यतस्तस्य विबभौ रूपं दावस्य भारत । मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ॥
← Previous (Ch. 215) Full Table of Contents Next (Ch. 217) →