Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 217

Ādiparva Adhyāya 217

आदिपर्व • अध्यायः 217

Ādiparva Adhyāya 217 of the classical Mahābhārata with 23 verses.

Total: 23 Verses • Citations: MBh 1.217.1–23 • 250 Lexicon Terms
तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ । दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः । पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ॥
छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् । आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ॥
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः । उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ॥
दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे । स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ॥
समालिङ्ग्य सुतानन्ये पितॄन्मातॄंस्तथापरे । त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ॥
विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः । तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ॥
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले । तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥
जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत । गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ॥
शरीरैः संप्रदीप्तैश्च देहवन्त इवाग्नयः । अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसंक्षये ॥
तांस्तथोत्पततः पार्थः शरैः संछिद्य खण्डशः । दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ॥
ते शराचितसर्वाङ्गा विनदन्तो महारवान् । ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ॥
शरैरभ्याहतानां च दह्यतां च वनौकसाम् । विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ॥
वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः । जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः । शरणं देवराजानं सहस्राक्षं पुरंदरम् ॥
किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना । कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर ॥
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च । खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥
महता मेघजालेन नानारूपेण वज्रभृत् । आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ॥
ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः । अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ॥
असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः । ख एव समशुष्यन्त न काश्चित्पावकं गताः ॥
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा । पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ॥
अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम् । बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ॥
← Previous (Ch. 216) Full Table of Contents Next (Ch. 218) →