Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 211

Ādiparva Adhyāya 211

आदिपर्व • अध्यायः 211

Ādiparva Adhyāya 211 of the classical Mahābhārata with 26 verses.

Total: 26 Verses • Citations: MBh 1.211.1–26 • 250 Lexicon Terms
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ । वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ॥
तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः । भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥
प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः । स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ॥
वादित्राणि च तत्र स्म वादकाः समवादयन् । ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः ॥
अलंकृताः कुमाराश्च वृष्णीनां सुमहौजसः । यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ॥
पौराश्च पादचारेण यानैरुच्चावचैस्तथा । सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः । अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ॥
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् । उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ॥
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ । दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव ॥
अक्रूरः सारणश्चैव गदो भानुर्विडूरथः । निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥
सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ । हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ॥
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् । तमुत्सवं रैवतके शोभयां चक्रिरे तदा ॥
तदा कोलाहले तस्मिन्वर्तमाने महाशुभे । वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥
तत्र चङ्क्रम्यमाणौ तौ वसुदेवसुतां शुभाम् । अलंकृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत । तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥
अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत । वनेचरस्य किमिदं कामेनालोड्यते मनः ॥
ममैषा भगिनी पार्थ सारणस्य सहोदरा । यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा । रूपेण चैव संपन्ना कमिवैषा न मोहयेत् ॥
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् । यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥
प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन । आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ॥
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ । स च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते । विवाहहेतोः शूराणामिति धर्मविदो विदुः ॥
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम । हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् । शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा ॥
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै । श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः ॥
← Previous (Ch. 210) Full Table of Contents Next (Ch. 212) →