Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 201

Ādiparva Adhyāya 201

आदिपर्व • अध्यायः 201

Ādiparva Adhyāya 201 of the classical Mahābhārata with 33 verses.

Total: 33 Verses • Citations: MBh 1.201.1–33 • 250 Lexicon Terms
शृणु मे विस्तरेणेममितिहासं पुरातनम् । भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर ॥
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा । निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ । सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः ॥
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ । एकशीलसमाचारौ द्विधैवैकं यथा कृतौ ॥
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ । त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् ॥
कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः । तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ॥
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ । मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ॥
आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ । ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः । धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ॥
ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः । तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः । न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः । भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा ॥
परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा । स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ॥
अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः । न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः । ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥
ततः पितामहः साक्षादभिगम्य महासुरौ । वरेण छन्दयामास सर्वलोकपितामहः ॥
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ । दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा । आवयोस्तपसानेन यदि प्रीतः पितामहः ॥
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ । उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥
ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति । अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् ॥
करिष्यावेदमिति यन्महदभ्युत्थितं तपः । युवयोर्हेतुनानेन नामरत्वं विधीयते ॥
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः । हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥
त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम् । सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ॥
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् । मृत्योर्विधानमेतच्च यथावद्वां भविष्यति ॥
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः । निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥
लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ । अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ । सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् ॥
ततस्तौ तु जटा हित्वा मौलिनौ संबभूवतुः । महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥
अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् । दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः ॥
भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति । पीयतां दीयतां चेति वाच आसन्गृहे गृहे ॥
तत्र तत्र महापानैरुत्कृष्टतलनादितैः । हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ॥
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् । समाः संक्रीडतां तेषामहरेकमिवाभवत् ॥
← Previous (Ch. 200) Full Table of Contents Next (Ch. 202) →