Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 200

Ādiparva Adhyāya 200

आदिपर्व • अध्यायः 200

Ādiparva Adhyāya 200 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 1.200.1–24 • 250 Lexicon Terms
एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन । अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ॥
सर्व एव महात्मानः पूर्वे मम पितामहाः । द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥
कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः । वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥
श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन । तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया ॥
धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः । रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परंतपाः ॥
प्राप्य राज्यं महातेजाः सत्यसंधो युधिष्ठिरः । पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ॥
जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः । मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः ॥
कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः । आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥
अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु । नारदस्त्वथ देवर्षिराजगाम यदृच्छया । आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ॥
देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि । प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् ॥
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् । आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ॥
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः । प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ॥
श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता । जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ॥
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी । कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ॥
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः । आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः । गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् । विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ॥
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी । यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ॥
सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ । आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥
एकराज्यावेकगृहावेकशय्यासनाशनौ । तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् । यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने । उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥
अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा । यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ॥
एतत्सर्वं यथावृत्तं विस्तरेण तपोधन । श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः ॥
English Translation
O Brahmarshi, tell us all about this. We all together desire to hear you describe them. We are full of great curiosity."
← Previous (Ch. 199) Full Table of Contents Next (Ch. 201) →