Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 60

Sabhāparva Adhyāya 60

सभापर्व • अध्यायः 60

Sabhāparva Adhyāya 60 of the classical Mahābhārata with 48 verses.

Total: 48 Verses • Citations: MBh 2.60.1–48 • 250 Lexicon Terms • Page 2 of 2 (Verses 18 shown)
नृशंसकर्मंस्त्वमनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः । न मर्षयेयुस्तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः ॥
धर्मे स्थितो धर्मसुतश्च राजा; धर्मश्च सूक्ष्मो निपुणोपलभ्यः । वाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान्विसृज्य ॥
इदं त्वनार्यं कुरुवीरमध्ये; रजस्वलां यत्परिकर्षसे माम् । न चापि कश्चित्कुरुतेऽत्र पूजां; ध्रुवं तवेदं मतमन्वपद्यन् ॥
धिगस्तु नष्टः खलु भारतानां; धर्मस्तथा क्षत्रविदां च वृत्तम् । यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम् ॥
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनोऽपि । राज्ञस्तथा हीममधर्ममुग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः ॥
तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन्कुपितानपश्यत् । सा पाण्डवान्कोपपरीतदेहा;न्संदीपयामास कटाक्षपातैः ॥
हृतेन राज्येन तथा धनेन; रत्नैश्च मुख्यैर्न तथा बभूव । यथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम् ॥
दुःशासनश्चापि समीक्ष्य कृष्णा;मवेक्षमाणां कृपणान्पतींस्तान् । आधूय वेगेन विसंज्ञकल्पा;मुवाच दासीति हसन्निवोग्रः ॥
कर्णस्तु तद्वाक्यमतीव हृष्टः; संपूजयामास हसन्सशब्दम् । गान्धारराजः सुबलस्य पुत्र;स्तथैव दुःशासनमभ्यनन्दत् ॥
सभ्यास्तु ये तत्र बभूवुरन्ये; ताभ्यामृते धार्तराष्ट्रेण चैव । तेषामभूद्दुःखमतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम् ॥
न धर्मसौक्ष्म्यात्सुभगे विवक्तुं; शक्नोमि ते प्रश्नमिमं यथावत् । अस्वो ह्यशक्तः पणितुं परस्वं; स्त्रियश्च भर्तुर्वशतां समीक्ष्य ॥
त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यमथो न जह्यात् । उक्तं जितोऽस्मीति च पाण्डवेन; तस्मान्न शक्नोमि विवेक्तुमेतत् ॥
द्यूतेऽद्वितीयः शकुनिर्नरेषु; कुन्तीसुतस्तेन निसृष्टकामः । न मन्यते तां निकृतिं महात्मा; तस्मान्न ते प्रश्नमिमं ब्रवीमि ॥
आहूय राजा कुशलैः सभायां; दुष्टात्मभिर्नैकृतिकैरनार्यैः । द्यूतप्रियैर्नातिकृतप्रयत्नः; कस्मादयं नाम निसृष्टकामः ॥
स शुद्धभावो निकृतिप्रवृत्ति;मबुध्यमानः कुरुपाण्डवाग्र्यः । संभूय सर्वैश्च जितोऽपि यस्मा;त्पश्चाच्च यत्कैतवमभ्युपेतः ॥
तिष्ठन्ति चेमे कुरवः सभाया;मीशाः सुतानां च तथा स्नुषाणाम् । समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नमिमं यथावत् ॥
तथा ब्रुवन्तीं करुणं रुदन्ती;मवेक्षमाणामसकृत्पतींस्तान् । दुःशासनः परुषाण्यप्रियाणि; वाक्यान्युवाचामधुराणि चैव ॥
तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयामतदर्हमाणाम् । वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः ॥
← Previous (Ch. 284) Full Table of Contents Next (Ch. 286) →