Skip to main content
Search
MBh
Mahābhārata • Parva 15 (Āśramavāsikaparva) • Adhyāya 17

Āśramavāsikaparva Adhyāya 17

आश्रमवासिकपर्व • अध्यायः 17

Āśramavāsikaparva Adhyāya 17 of the classical Mahābhārata with 24 verses.

Total: 24 Verses • Citations: MBh 15.17.1–24 • 250 Lexicon Terms
व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः । विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् ॥
English Translation
Vaishampayana said After that night had passed away, Dhritarashtra, the son of Ambika, sent Vidura to Yudhishthira's place.
स गत्वा राजवचनादुवाचाच्युतमीश्वरम् । युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः ॥
English Translation
Gifted with great energy and the foremost of all persons endued with intelligence, Vidura. having arrived at at Yudhishthira's palace, addressed that foremost of men, that king of undecaying glory, in these words:—King Diritarashtra has perforined the preliminary rites for accomplishing his purpose of retiring into the forest. He will start for the woods, O king, on the coming day of full moon of the month of Kartika.
धृतराष्ट्रो महाराज वनवासाय दीक्षितः । गमिष्यति वनं राजन्कार्त्तिकीमागतामिमाम् ॥
स त्वा कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति । श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः ॥
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः । पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः । यदि चाभ्यनुजानीषे सैन्धवापसदस्य च ॥
English Translation
He now solicits from you, O foremost of Kuru's race, some money. He wishes to perform the Shraddha of the great son of Ganga, as also of Drona and Somadatta and Vallika of great intelligence, and of all his sons as also of all other wishers of his who have been killed, and, if you permit it, of that wicked king of the Sindhus.
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः । हृष्टः संपूजयामास गुडाकेशश्च पाण्डवः ॥
English Translation
Hearing these words of Vidura, both Yudhishthira, and Pandus' son Arjuna of curly hair, became very glad and applauded them highly.
न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा । विदुरस्य महातेजा दुर्योधनकृतं स्मरन् ॥
अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः । किरीटी किंचिदानम्य भीमं वचनमब्रवीत् ॥
भीम राजा पिता वृद्धो वनवासाय दीक्षितः । दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् ॥
भवता निर्जितं वित्तं दातुमिच्छति कौरवः । भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि ॥
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति । याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् ॥
योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः । परैर्विनिहतापत्यो वनं गन्तुमभीप्सति ॥
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् । अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज ॥
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् । अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ । एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत् ॥
English Translation
You should give instead of refusing, O chief of Bharata's race!' Bibhatsu who was saying so was applauded by king Yudhishthira the just.
भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा । वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन ॥
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च । बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः ॥
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति । श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः ॥
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः । कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः । यैरियं पृथिवी सर्वा घातिता कुलपांसनैः ॥
English Translation
This is what I think. Let not our enemies be gladdened. Let Duryodhana and others sink from a miserable to a more miserable position.
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् । अज्ञातवासगमनं द्रौपदीशोकवर्धनम् । क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा ॥
English Translation
Alas, it was those wretches of their family who caused the whole Earth to be exterininated? How have you been able to forget that anxiety of twelve long years and out living in deep forest in cognite that was so painful to Draupadi? Where was Dhritarashtra's affection for us then?
कृष्णाजिनोपसंवीतो हृताभरणभूषणः । सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् । क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत् ॥
यत्र त्रयोदश समा वने वन्येन जीवसि । न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते ॥
किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः । दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत ॥
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः । उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् ॥
← Previous (Ch. 1947) Full Table of Contents Next (Ch. 1949) →