Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 173

Ādiparva Adhyāya 173

आदिपर्व • अध्यायः 173

Ādiparva Adhyāya 173 of the classical Mahābhārata with 25 verses.

Total: 25 Verses • Citations: MBh 1.173.1–25 • 250 Lexicon Terms
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे । कारणं किं पुरस्कृत्य भार्या वै संनियोजिता ॥
जानता च परं धर्मं लोक्यं तेन महात्मना । अगम्यागमनं कस्माद्वसिष्ठेन महात्मना । कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः ॥
धनंजय निबोधेदं यन्मां त्वं परिपृच्छसि । वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् ॥
कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः । शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः । निर्जगाम पुराद्राजा सहदारः परंतपः ॥
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे । नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् ॥
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् । अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् ॥
स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः । ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे । ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसंगतौ ॥
तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ । तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् ॥
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत । शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत ॥
आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः । अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः ॥
शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि । ऋतुकाले तु संप्राप्ते भर्त्रास्म्यद्य समागता ॥
अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान् । प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् ॥
एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् । भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ॥
तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि । सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ॥
ततः सा शोकसंतप्ता भर्तृव्यसनदुःखिता । कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ॥
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् । प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः ॥
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः । पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् ॥
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः । तेन संगम्य ते भार्या तनयं जनयिष्यति । स ते वंशकरः पुत्रो भविष्यति नृपाधम ॥
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा । तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् ॥
वसिष्ठश्च महाभागः सर्वमेतदपश्यत । ज्ञानयोगेन महता तपसा च परंतप ॥
मुक्तशापश्च राजर्षिः कालेन महता ततः । ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ॥
न हि सस्मार नृपतिस्तं शापं शापमोहितः । देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः । तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा ॥
एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत् । स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः ॥
← Previous (Ch. 172) Full Table of Contents Next (Ch. 174) →