Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 174

Ādiparva Adhyāya 174

आदिपर्व • अध्यायः 174

Ādiparva Adhyāya 174 of the classical Mahābhārata with 13 verses.

Total: 13 Verses • Citations: MBh 1.174.1–13 • 250 Lexicon Terms
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् । पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ॥
यवीयान्देवलस्यैष वने भ्राता तपस्यति । धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ ॥
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि । गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् ॥
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम । कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत् ॥
तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह । रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे ॥
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते । तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः । पाद्येन फलमूलेन पौरोहित्येन चैव ह ॥
ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः । तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् ॥
मातृषष्ठास्तु ते तेन गुरुणा संगतास्तदा । नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः । तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः ॥
वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः । बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् ॥
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः । मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥
← Previous (Ch. 173) Full Table of Contents Next (Ch. 175) →