Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 156

Ādiparva Adhyāya 156

आदिपर्व • अध्यायः 156

Ādiparva Adhyāya 156 of the classical Mahābhārata with 12 verses.

Total: 12 Verses • Citations: MBh 1.156.1–12 • 250 Lexicon Terms
एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् । सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः ॥
ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः । युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ॥
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने । रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर ॥
यानीह रमणीयानि वनान्युपवनानि च । सर्वाणि तानि दृष्टानि पुनः पुनररिंदम ॥
पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा । भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥
ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे । अपूर्वदर्शनं तात रमणीयं भविष्यति ॥
सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन । यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः ॥
एकत्र चिरवासो हि क्षमो न च मतो मम । ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ॥
भवत्या यन्मतं कार्यं तदस्माकं परं हितम् । अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ॥
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा । उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ॥
तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह । प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ॥
← Previous (Ch. 155) Full Table of Contents Next (Ch. 157) →