Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 155

Ādiparva Adhyāya 155

आदिपर्व • अध्यायः 155

Ādiparva Adhyāya 155 of the classical Mahābhārata with 53 verses.

Total: 53 Verses • Citations: MBh 1.155.1–53 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् । अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः । नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् । निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च । क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत । प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् । ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः । तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः । संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥
तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ । स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे । प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः । अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे । उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् । सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥
इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह । आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः । उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥
ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे । अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥
तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् । विमर्शं संकरादाने नायं कुर्यात्कथंचन ॥
दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः । विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः । भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा । कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥
तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा । तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् । उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् । अभिसंपूज्य पूजार्हमृषिं याजमुवाच ह ॥
अयुतानि ददान्यष्टौ गवां याजय मां विभो । द्रोणवैराभिसंतप्तं त्वं ह्लादयितुमर्हसि ॥
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः । तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः । कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥
द्रोणस्य शरजालानि प्राणिदेहहराणि च । षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥
स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् । प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः । तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥
ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः । समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः । ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥
सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् । द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् । तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥
← Previous (Ch. 154) Full Table of Contents Next (Ch. 156) →