Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 155

Ādiparva Adhyāya 155

आदिपर्व • अध्यायः 155

Ādiparva Adhyāya 155 of the classical Mahābhārata with 53 verses.

Total: 53 Verses • Citations: MBh 1.155.1–53 • 250 Lexicon Terms • Page 2 of 2 (Verses 23 shown)
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् । गुर्वर्थ इति चाकाममुपयाजमचोदयत् । याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः । आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥
स च पुत्रो महावीर्यो महातेजा महाबलः । इष्यते यद्विधो राजन्भविता ते तथाविधः ॥
भारद्वाजस्य हन्तारं सोऽभिसंधाय भूमिपः । आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥
याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा । प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥
अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च । सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् । कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥
एवमुक्ते तु याजेन हुते हविषि संस्कृते । उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् । बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥
सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा । ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥
भयापहो राजपुत्रः पाञ्चालानां यशस्करः । राज्ञः शोकापहो जात एष द्रोणवधाय वै । इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता । सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा । मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति । या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ॥
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी । सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥
सुरकार्यमियं काले करिष्यति सुमध्यमा । अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत् । न चैतान्हर्षसंपूर्णानियं सेहे वसुंधरा ॥
तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी । न वै मदन्यां जननीं जानीयातामिमाविति ॥
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया । तयोश्च नामनी चक्रुर्द्विजाः संपूर्णमानसाः ॥
धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्संभवादपि । धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः । तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् । उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः । तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥
← Previous (Ch. 154) Full Table of Contents Next (Ch. 156) →