Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 148

Ādiparva Adhyāya 148

आदिपर्व • अध्यायः 148

Ādiparva Adhyāya 148 of the classical Mahābhārata with 17 verses.

Total: 17 Verses • Citations: MBh 1.148.1–17 • 250 Lexicon Terms
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः । विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ॥
उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने । न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥
समीपे नगरस्यास्य बको वसति राक्षसः । ईशो जनपदस्यास्य पुरस्य च महाबलः ॥
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः । रक्षत्यसुरराण्नित्यमिमं जनपदं बली ॥
नगरं चैव देशं च रक्षोबलसमन्वितः । तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ॥
वेतनं तस्य विहितं शालिवाहस्य भोजनम् । महिषौ पुरुषश्चैको यस्तदादाय गच्छति ॥
एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् । स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥
तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् । सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥
वेत्रकीयगृहे राजा नायं नयमिहास्थितः । अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥
एतदर्हा वयं नूनं वसामो दुर्बलस्य ये । विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ॥
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः । गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । त्रयस्य संचये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ॥
विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् । त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ॥
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः । भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥
न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित् । सुहृज्जनं प्रदातुं च न शक्ष्यामि कथंचन । गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥
सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् । सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् । ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥
← Previous (Ch. 147) Full Table of Contents Next (Ch. 149) →