Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 145

Ādiparva Adhyāya 145

आदिपर्व • अध्यायः 145

Ādiparva Adhyāya 145 of the classical Mahābhārata with 41 verses.

Total: 41 Verses • Citations: MBh 1.145.1–41 • 250 Lexicon Terms • Page 2 of 2 (Verses 11 shown)
अथ वा मद्विनाशोऽयं न हि शक्ष्यामि कंचन । परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥
सहधर्मचरीं दान्तां नित्यं मातृसमां मम । सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् । वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥
कुलीनां शीलसंपन्नामपत्यजननीं मम । त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् । परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ॥
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् । बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना । यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह । स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः । कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ॥
यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् । अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः । त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः । आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् । अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः । सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ॥
← Previous (Ch. 144) Full Table of Contents Next (Ch. 146) →