Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 144

Ādiparva Adhyāya 144

आदिपर्व • अध्यायः 144

Ādiparva Adhyāya 144 of the classical Mahābhārata with 21 verses.

Total: 21 Verses • Citations: MBh 1.144.1–21 • 250 Lexicon Terms
ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् । अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च । रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः । सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ॥
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः । क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ॥
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः । नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ॥
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा । तस्थुः प्राञ्जलयः सर्वे सह मात्रा परंतपाः ॥
मयेदं मनसा पूर्वं विदितं भरतर्षभाः । यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ॥
तद्विदित्वास्मि संप्राप्तश्चिकीर्षुः परमं हितम् । न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ॥
समास्ते चैव मे सर्वे यूयं चैव न संशयः । दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ॥
तस्मादभ्यधिकः स्नेहो युष्मासु मम सांप्रतम् । स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ॥
इदं नगरमभ्याशे रमणीयं निरामयम् । वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥
एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् । एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ॥
जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः । पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ॥
धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी । भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः ॥
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः । स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् । राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च । पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ॥
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने । अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ॥
इह मां संप्रतीक्षध्वमागमिष्याम्यहं पुनः । देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ॥
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप । जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ॥
← Previous (Ch. 143) Full Table of Contents Next (Ch. 145) →