Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 145

Ādiparva Adhyāya 145

आदिपर्व • अध्यायः 145

Ādiparva Adhyāya 145 of the classical Mahābhārata with 41 verses.

Total: 41 Verses • Citations: MBh 1.145.1–41 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥
English Translation
Janamejaya said : O Brahmana, what did those best of men, the Pandavas, do after they had killed the, Rakshasas Baka.
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥
रमणीयानि पश्यन्तो वनानि विविधानि च । पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते । बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि । तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥
अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः । अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् । अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः । संगत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने । भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा । कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥
मथ्यमानेव दुःखेन हृदयेन पृथा ततः । उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने । अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् । प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति । यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् । तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् । विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥
English Translation
O greatly fortunate man, O foremost of all eloquent men, whatever you desire to have, I shall give you however difficult it may be to give."
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् । आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः । विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च । दुहित्रा चैव सहितं ददर्श विकृताननम् ॥
धिगिदं जीवितं लोकेऽनलसारमनर्थकम् । दुःखमूलं पराधीनं भृशमप्रियभागि च ॥
जीविते परमं दुःखं जीविते परमो ज्वरः । जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥
एकात्मापि हि धर्मार्थौ कामं च न निषेवते । एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ॥
आहुः केचित्परं मोक्षं स च नास्ति कथंचन । अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ॥
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् । जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥
न हि योगं प्रपश्यामि येन मुच्येयमापदः । पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ॥
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि । यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ॥
इह जाता विवृद्धास्मि पिता चेह ममेति च । उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ॥
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव । बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम । बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम ॥
← Previous (Ch. 144) Full Table of Contents Next (Ch. 146) →