Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 142

Ādiparva Adhyāya 142

आदिपर्व • अध्यायः 142

Ādiparva Adhyāya 142 of the classical Mahābhārata with 35 verses.

Total: 35 Verses • Citations: MBh 1.142.1–35 • 250 Lexicon Terms
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् । विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा । उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ॥
कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि । केन कार्येण सुश्रोणि कुतश्चागमनं तव ॥
यदि वास्य वनस्यासि देवता यदि वाप्सराः । आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥
यदेतत्पश्यसि वनं नीलमेघनिभं महत् । निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ॥
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि । भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥
क्रूरबुद्धेरहं तस्य वचनादागता इह । अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ॥
ततोऽहं सर्वभूतानां भावे विचरता शुभे । चोदिता तव पुत्रस्य मन्मथेन वशानुगा ॥
ततो वृतो मया भर्ता तव पुत्रो महाबलः । अपनेतुं च यतितो न चैव शकितो मया ॥
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः । स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥
स तेन मम कान्तेन तव पुत्रेण धीमता । बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ॥
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् । पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ॥
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः । अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् । काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ॥
तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् । दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥
वसुधारेणुसंवीतौ वसुधाधरसंनिभौ । विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ॥
राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु । उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ॥
भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् । समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ॥
साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् । नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥
उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया । न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥
किमनेन चिरं भीम जीवता पापरक्षसा । गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ॥
पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते । रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ॥
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् । पुरा विकुरुते मायां भुजयोः सारमर्पय ॥
अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः । उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ॥
वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः । वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥
अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि । करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ॥
अथ वाप्यहमेवैनं हनिष्यामि वृकोदर । कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥
तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः । निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ॥
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् । पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ॥
भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः । मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ॥
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः । अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् ॥
अभिपूज्य महात्मानं भीमं भीमपराक्रमम् । पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥
नदूरे नगरं मन्ये वनादस्मादहं प्रभो । शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥
ततः सर्वे तथेत्युक्त्वा सह मात्रा परंतपाः । प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥
← Previous (Ch. 141) Full Table of Contents Next (Ch. 143) →