Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 90

Ādiparva Adhyāya 90

आदिपर्व • अध्यायः 90

Ādiparva Adhyāya 90 of the classical Mahābhārata with 97 verses.

Total: 97 Verses • Citations: MBh 1.90.1–97 • 250 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
श्रुतस्त्वत्तो मया विप्र पूर्वेषां संभवो महान् । उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति । प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ॥
एतामेव कथां दिव्यामा प्रजापतितो मनोः । तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् । विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ॥
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् । न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥
शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् । प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ॥
दक्षस्यादितिः । अदितेर्विवस्वान् । विवस्वतो मनुः । मनोरिला । इलायाः पुरूरवाः । पुरूरवस आयुः । आयुषो नहुषः । नहुषस्य ययातिः ॥
ययातेर्द्वे भार्ये बभूवतुः । उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम । अत्रानुवंशो भवति ॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥
तत्र यदोर्यादवाः । पूरोः पौरवाः ॥
पूरोर्भार्या कौसल्या नाम । तस्यामस्य जज्ञे जनमेजयो नाम । यस्त्रीनश्वमेधानाजहार । विश्वजिता चेष्ट्वा वनं प्रविवेश ॥
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् । तस्यामस्य जज्ञे प्राचिन्वान् । यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् । ततस्तस्य प्राचिन्वत्वम् ॥
प्राचिन्वान्खल्वश्मकीमुपयेमे । तस्यामस्य जज्ञे संयातिः ॥
English Translation
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे । तस्यामस्य जज्ञे अहंपातिः ॥
English Translation
Samvarana married Tapati, the daughter of Vivasvata and she gave birth to a son, named Kuru.
अहंपातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम । तस्यामस्य जज्ञे सार्वभौमः ॥
English Translation
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम । तस्यामस्य जज्ञे जयत्सेनः ॥
English Translation
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम । तस्यामस्य जज्ञे अराचीनः ॥
English Translation
Vikunthana married Sudeva, the princess of Dasarha and she gave birth to a son, named Ajamidha.
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे महाभौमः ॥
English Translation
Vidura married Sungpriya, the daughter of Madhava and she gave birth to a son, named Anashva.
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम । तस्यामस्य जज्ञे अयुतनायी । यः पुरुषमेधानामयुतमानयत् । तदस्यायुतनायित्वम् ॥
English Translation
Bhimasena married Kumari, the princess of Kekaya and she gave birth to a son, named Pratishrava.
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम । तस्यामस्य जज्ञे अक्रोधनः ॥
English Translation
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे । तस्यामस्य जज्ञे देवातिथिः ॥
English Translation
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे ऋचः ॥
English Translation
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम । तस्यां पुत्रमजनयदृक्षम् ॥
English Translation
Bhimasena married Kumari, the princess of Kekaya and she gave birth to a son, named Pratishrava.
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम । तस्यां पुत्रं मतिनारं नामोत्पादयामास ॥
English Translation
Bhimasena married Kumari, the princess of Kekaya and she gave birth to a son, named Pratishrava.
मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार ॥
निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास । तस्यां पुत्रमजनयत्तंसुं नाम ॥
अत्रानुवंशो भवति ॥
तंसुं सरस्वती पुत्रं मतिनारादजीजनत् । इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥
इलिनस्तु रथंतर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् ॥
← Previous (Ch. 89) Full Table of Contents Next (Ch. 91) →