Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 224

Ādiparva Adhyāya 224

आदिपर्व • अध्यायः 224

Ādiparva Adhyāya 224 of the classical Mahābhārata with 33 verses.

Total: 33 Verses • Citations: MBh 1.224.1–33 • 250 Lexicon Terms
मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा । उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ॥
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् । कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ॥
वर्धमाने हुतवहे वाते शीघ्रं प्रवायति । असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥
कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी । भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ॥
कथं नु सरणेऽशक्तान्पतने च ममात्मजान् । संतप्यमाना अभितो वाशमानाभिधावती ॥
जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे । स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥
लालप्यमानं तमृषिं मन्दपालं तथा वने । लपिता प्रत्युवाचेदं सासूयमिव भारत ॥
न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि । तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥
तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ । प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ॥
लोकपालोऽनृतां वाचं न तु वक्ता कथंचन । समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ॥
तामेव तु ममामित्रीं चिन्तयन्परितप्यसे । ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ॥
न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने । पीड्यमान उपद्रष्टुं शक्तेनात्मा कथंचन ॥
गच्छ त्वं जरितामेव यदर्थं परितप्यसे । चरिष्याम्यहमप्येका यथा कापुरुषे तथा ॥
नाहमेवं चरे लोके यथा त्वमभिमन्यसे । अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥
भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः । अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥
एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् । द्वेष्यं हि हृदि संतापं जनयत्यशिवं मम ॥
तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः । जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ॥
सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः । रोरूयमाणा कृपणा सुतान्दृष्टवती वने ॥
अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः । एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ॥
ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत । अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ॥
लालप्यमानमेकैकं जरितां च पुनः पुनः । नोचुस्ते वचनं किंचित्तमृषिं साध्वसाधु वा ॥
ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः । मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ॥
एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे । कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ॥
किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा । किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ॥
यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा । तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥
न स्त्रीणां विद्यते किंचिदन्यत्र पुरुषान्तरात् । सापत्नकमृते लोके भवितव्यं हि तत्तथा ॥
सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता । अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ॥
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् । सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ॥
अपध्यानेन सा तेन धूमारुणसमप्रभा । लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते ॥
अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह । इष्टमेवंगते हित्वा सा तथैव च वर्तसे ॥
नैव भार्येति विश्वासः कार्यः पुंसा कथंचन । न हि कार्यमनुध्याति भार्या पुत्रवती सती ॥
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे । स च तानात्मजान्राजन्नाश्वासयितुमारभत् ॥
← Previous (Ch. 223) Full Table of Contents Next (Ch. 225) →