Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 202

Ādiparva Adhyāya 202

आदिपर्व • अध्यायः 202

Ādiparva Adhyāya 202 of the classical Mahābhārata with 28 verses.

Total: 28 Verses • Citations: MBh 1.202.1–28 • 250 Lexicon Terms
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ । मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ॥
सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः । कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥
गदापट्टिशधारिण्या शूलमुद्गरहस्तया । प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ॥
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः । चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ॥
तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ । देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ॥
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः । हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ॥
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा । खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ॥
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ । समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः ॥
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ । सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः ॥
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः । तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ॥
तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् । संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ॥
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः । क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् ॥
यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः । तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ॥
आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् । गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः ॥
तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः । नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः ॥
नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव । नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ॥
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः । तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ॥
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः । शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ॥
राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ । उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ । संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ॥
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ । तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ॥
निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा । उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥
हाहाभूता भयार्ता च निवृत्तविपणापणा । निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा । अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना ॥
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् । जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ॥
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः । जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा । निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥
← Previous (Ch. 201) Full Table of Contents Next (Ch. 203) →