Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 160

Ādiparva Adhyāya 160

आदिपर्व • अध्यायः 160

Ādiparva Adhyāya 160 of the classical Mahābhārata with 42 verses.

Total: 42 Verses • Citations: MBh 1.160.1–42 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
तापत्य इति यद्वाक्यमुक्तवानसि मामिह । तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् ॥
तपती नाम का चैषा तापत्या यत्कृते वयम् । कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् ॥
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम् । विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् ॥
हन्त ते कथयिष्यामि कथामेतां मनोरमाम् । यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर ॥
उक्तवानस्मि येन त्वां तापत्य इति यद्वचः । तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम ॥
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा । एतस्य तपती नाम बभूवासदृशी सुता ॥
विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो । विश्रुता त्रिषु लोकेषु तपती तपसा युता ॥
न देवी नासुरी चैव न यक्षी न च राक्षसी । नाप्सरा न च गन्धर्वी तथारूपेण काचन ॥
सुविभक्तानवद्याङ्गी स्वसितायतलोचना । स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥
न तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत । भर्तारं सविता मेने रूपशीलकुलश्रुतैः ॥
संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् । नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन् ॥
अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली । सूर्यमाराधयामास नृपः संवरणः सदा ॥
अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः । नियमैरुपवासैश्च तपोभिर्विविधैरपि ॥
शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः । अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ॥
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि । तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ॥
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् । नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै ॥
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा । तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् ॥
यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः । तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ॥
स सोममति कान्तत्वादादित्यमति तेजसा । बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ॥
एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव । तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ॥
स कदाचिदथो राजा श्रीमानुरुयशा भुवि । चचार मृगयां पार्थ पर्वतोपवने किल ॥
चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः । ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ॥
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः । ददर्शासदृशीं लोके कन्यामायतलोचनाम् ॥
स एक एकामासाद्य कन्यां तामरिमर्दनः । तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ॥
स हि तां तर्कयामास रूपतो नृपतिः श्रियम् । पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम् ॥
गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना । स सवृक्षक्षुपलतो हिरण्मय इवाभवत् ॥
अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः । अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् ॥
जन्मप्रभृति यत्किंचिद्दृष्टवान्स महीपतिः । रूपं न सदृशं तस्यास्तर्कयामास किंचन ॥
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा । न चचाल ततो देशाद्बुबुधे न च किंचन ॥
← Previous (Ch. 159) Full Table of Contents Next (Ch. 161) →