Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 161

Ādiparva Adhyāya 161

आदिपर्व • अध्यायः 161

Ādiparva Adhyāya 161 of the classical Mahābhārata with 21 verses.

Total: 21 Verses • Citations: MBh 1.161.1–21 • 250 Lexicon Terms
अथ तस्यामदृश्यायां नृपतिः काममोहितः । पातनः शत्रुसंघानां पपात धरणीतले ॥
तस्मिन्निपतिते भूमावथ सा चारुहासिनी । पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥
अथाबभाषे कल्याणी वाचा मधुरया नृपम् । तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम । मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ॥
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा । ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ॥
अथ तामसितापाङ्गीमाबभाषे नराधिपः । मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा ॥
साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि । भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् ॥
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः । कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ॥
ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना । सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने ॥
त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि । चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने ॥
न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना । तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥
भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि । त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि । विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥
नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम् । मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥
यथा हि ते मया प्राणाः संगृहीता नरेश्वर । दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम । समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ॥
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् । कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ॥
तस्मादेवंगते काले याचस्व पितरं मम । आदित्यं प्रणिपातेन तपसा नियमेन च ॥
स चेत्कामयते दातुं तव मामरिमर्दन । भविष्याम्यथ ते राजन्सततं वशवर्तिनी ॥
अहं हि तपती नाम सावित्र्यवरजा सुता । अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥
← Previous (Ch. 160) Full Table of Contents Next (Ch. 162) →