Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 114

Ādiparva Adhyāya 114

आदिपर्व • अध्यायः 114

Ādiparva Adhyāya 114 of the classical Mahābhārata with 67 verses.

Total: 67 Verses • Citations: MBh 1.114.1–67 • 250 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
संवत्सराहिते गर्भे गान्धार्या जनमेजय । आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् ॥
सा बलिं त्वरिता देवी धर्मायोपजहार ह । जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा ॥
संगम्य सा तु धर्मेण योगमूर्तिधरेण वै । लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ॥
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे । दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ॥
समृद्धयशसं कुन्ती सुषाव समये सुतम् । जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥
एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः । युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ॥
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः । यशसा तेजसा चैव वृत्तेन च समन्वितः ॥
धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् । प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥
ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा । तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥
तमप्यतिबलं जातं वागभ्यवददच्युतम् । सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ॥
इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे । यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल । नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ॥
ततः स वज्रसंघातः कुमारोऽभ्यपतद्गिरौ । पतता तेन शतधा शिला गात्रैर्विचूर्णिता । तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ॥
यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम । दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ॥
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् । कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ॥
दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः । तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् । अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ॥
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् । यं दास्यति स मे पुत्रं स वरीयान्भविष्यति । कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ॥
ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः । दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ॥
आत्मना च महाबाहुरेकपादस्थितोऽभवत् । उग्रं स तप आतस्थे परमेण समाधिना ॥
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् । सूर्येण सह धर्मात्मा पर्यवर्तत भारत ॥
तं तु कालेन महता वासवः प्रत्यभाषत । पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥
देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् । सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ॥
इत्युक्तः कौरवो राजा वासवेन महात्मना । उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ॥
नीतिमन्तं महात्मानमादित्यसमतेजसम् । दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ॥
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् । लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी । अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥
जातमात्रे कुमारे तु वागुवाचाशरीरिणी । महागम्भीरनिर्घोषा नभो नादयती तदा ॥
कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः । एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ॥
← Previous (Ch. 113) Full Table of Contents Next (Ch. 115) →