Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 115

Ādiparva Adhyāya 115

आदिपर्व • अध्यायः 115

Ādiparva Adhyāya 115 of the classical Mahābhārata with 29 verses.

Total: 29 Verses • Citations: MBh 1.115.1–29 • 250 Lexicon Terms
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च । मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥
न मेऽस्ति त्वयि संतापो विगुणेऽपि परंतप । नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा । श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता । दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति संततिः ॥
यदि त्वपत्यसंतानं कुन्तिराजसुता मयि । कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति । यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते । न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् । मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् । कुलस्य मम संतानं लोकस्य च कुरु प्रियम् ॥
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः । मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् । प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ॥
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् । गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः । चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते । अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् । तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥
ततो माद्री विचार्यैव जगाम मनसाश्विनौ । तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि । तथैव तावपि यमौ वागुवाचाशरीरिणी ॥
रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति । भासतस्तेजसात्यर्थं रूपद्रविणसंपदा ॥
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः । भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ॥
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् । अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् । माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः । अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् । तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता । बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ॥
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् । तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः । संभूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ॥
शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः । सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः । सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ । विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः । सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥
← Previous (Ch. 114) Full Table of Contents Next (Ch. 116) →