Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 114

Ādiparva Adhyāya 114

आदिपर्व • अध्यायः 114

Ādiparva Adhyāya 114 of the classical Mahābhārata with 67 verses.

Total: 67 Verses • Citations: MBh 1.114.1–67 • 250 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता । तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥
एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः । चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति ॥
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः । मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ॥
ग्रामणीश्च महीपालानेष जित्वा महाबलः । भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ॥
English Translation
At this time the king of the Panchalas, seeing the great army and hearing its roar, soon came out of his palace with all his brothers.
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः । एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः ॥
तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति । विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ॥
एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके । उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् ॥
वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् । बभूव परमो हर्षः शतशृङ्गनिवासिनाम् ॥
तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् । आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ॥
उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः । समवेत्य च देवानां गणाः पार्थमपूजयन् ॥
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा । प्रजानां पतयः सर्वे सप्त चैव महर्षयः ॥
भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः । यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम ॥
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः । दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ॥
दिव्यमाल्याम्बरधराः सर्वालंकारभूषिताः । उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः । गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ॥
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा । गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा । त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥
कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः । सद्वा बृहद्वा बृहकः करालश्च महायशाः ॥
ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः । विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा ॥
गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू । इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् ॥
तथैवाप्सरसो हृष्टाः सर्वालंकारभूषिताः । ननृतुर्वै महाभागा जगुश्चायतलोचनाः ॥
अनूना चानवद्या च प्रियमुख्या गुणावरा । अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ॥
मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा । अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥
असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा । पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ॥
काम्या शारद्वती चैव ननृतुस्तत्र संघशः । मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ॥
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि । उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश । उर्वश्येकादशीत्येता जगुरायतलोचनाः ॥
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा । इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ॥
पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः । महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः ॥
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः ॥
दहनोऽथेश्वरश्चैव कपाली च विशां पते । स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे ॥
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः । विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः ॥
← Previous (Ch. 113) Full Table of Contents Next (Ch. 115) →