Skip to main content
Search
Ch. 3 KS 3.63
Full Chapter
KS • Chapter 3: Canto 3

KS 3.63

Canonical Ref: KS 3.63
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अनन्यभाजं पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन । न हीश्वरव्याहृतयः कदा चित्पुष्यन्ति लोके विपरीतमर्थम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अनन्येति । सा कृतप्रणामा देवी, भवेन हरेण । अन्यां न भजतीति तमनन्यभाजम् `भजोण्विः` इति ण्विप्रत्ययः । सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः । पतिमाप्नुहीति तथ्यं सत्यमेवाभिहितोक्ता उत्तरत्र तथैव संभवादिति भावः । अभिदधातेर्ब्रुवर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः । तथाहि । ईश्वरव्याहृतयो महापुरुषोक्तयः कदाचिदपि लोके भुवने `लोकस्तु भुवने जने` इत्यमरः (अ.को.3|3|2) । विपरीतं विपरीतं विसंवादिनमर्थमभिधेयं न पुष्णन्ति । न बोधयन्तीत्यर्थः अन्वयः: सा भवेन `अनन्यभाजं पतिम् आप्नुहि` इति तथ्यम् एव अभिहिता । हि ईश्वरव्‌याहृतयः कदाचित् अपि लोके विपरीतम् अर्थम् न पुष्णन्ति ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अनन्यभाजं
Lemma: अनन्य
POS: adj
अनन्यभाजं
Lemma: भाज्
POS: adj
पतिम्
Lemma: पति
POS: m
आप्नुहीति
Lemma: आप्
POS: 1. P. • Verb: आप्नुहि
आप्नुहीति
Lemma: इति
POS: ind
सा
Lemma: तद्
POS: pron
तथ्यम्
Lemma: तथ्य
POS: adj
एवाभिहिता
Lemma: एव
POS: ind
एवाभिहिता
Lemma: अभिधा
POS: 3. Ā.
भवेन
Lemma: भव
POS: m
न
Lemma: न
POS: ind
हीश्वरव्याहृतयः
Lemma: हि
POS: ind
हीश्वरव्याहृतयः
Lemma: ईश्वर
POS: m
हीश्वरव्याहृतयः
Lemma: व्याहृति
POS: f
कदाचित्
Lemma: कदाचिद्
POS: ind
पुष्यन्ति
Lemma: पुष्
POS: 2. P. • Verb: पुष्यन्ति
लोके
Lemma: लोक
POS: m
विपरीतम्
Lemma: विपरीत
POS: adj
अर्थम्
Lemma: अर्थ
POS: mn
Canonical CTS URN Reference
Kumārasambhavam, KS 3.63. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 3.62) All Verses in Chapter 3 Next Verse (KS 3.64) →