Skip to main content
Search
KA
Kirātārjunīyam • Chapter 03

Canto 3

तृतीयः सर्गः

Canto 3 of Kirātārjunīyam.

Total: 60 Verses • Citations: KA 3.1–60 • 1 Lexicon Terms • Page 2 of 2 (Verses 30 shown)
KA 3.31 उपजातिः
कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ । इयाय सख्याविव सम्प्रसादं विश्वासयत्याशु सतां हि योगः ॥
KA 3.32 उपेन्द्रवज्रा
अथोष्णभासेव सुमेरुकुञ्जान्विहीयमानानुदयाय तेन । बृहद्द्युतीन्दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान्प्रपेदे ॥
KA 3.33 उपजातिः
असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः । तुल्याद्विभागादिव तन्मनोभिर्दुःखातिभारोऽपि लघुः स मेने ॥
KA 3.34 उपजातिः
धैर्येण विश्वास्यतया महर्षेस्तीव्रादरातिप्रभवाच्च मन्योः । वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः ॥
KA 3.35 उपजातिः
तान्भूरिधाम्नश्चतुरोऽपि दूरं विहाय यामानिव वासरस्य । एकौघभूतं तदशर्म कृष्णां विभावरीं ध्वान्तमिव प्रपेदे ॥
KA 3.36 उपजातिः
तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः । अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥
KA 3.37 उपजातिः
अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् । मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः ॥
KA 3.38 उपजातिः
धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः । निरुद्धबाष्पोदयसन्नकण्ठमुवाच कृच्छ्रादिति राजपुत्री ॥
KA 3.39 उपजातिः
मग्नां द्विषच्छद्मनि पङ्कभूते सम्भवानां भूतिमिवोद्धरिष्यन् । आधिद्विषामा तपसां प्रसिद्धेरस्मद्विना मा भृशमुन्मनीभूः ॥
KA 3.40 उपेन्द्रवज्रा
यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोग्गभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥
KA 3.41 इन्द्रवज्रा
लोकं विधात्रा विहितस्य गोप्तुं क्षत्त्रस्य मुष्णन्वसु जैत्रमोजः । तेजस्विताया विजयैकवृत्तेर्निघ्नन्प्रियं प्राणमिवाभिमानम् ॥
KA 3.42 उपजातिः
व्रीडानतैराप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः । वितानभूतं विततं पृथिव्यां यशः समूहन्निव दिग्विकीर्णम् ॥
KA 3.43 इन्द्रवज्रा
वीर्यावदानेषु कृतावमर्षस्तन्वन्नभूतामिव सम्प्रतीतिम् । कुर्वन्प्रयामक्षयमायतीनामर्कत्विषामह्न इवावशेषः ॥
KA 3.44 उपजातिः
प्रसह्य योऽस्मासु परैः प्रयुक्तः स्मर्तुं न शक्यः किमुताधिकर्तुम् । नवीकरिष्यत्युपशुष्यदार्द्रः स त्वद्विना मे हृदयं निकारः ॥
KA 3.45 उपजातिः
प्राप्तोऽभिमानव्यसनादसह्यं दन्तीव दन्तव्यसनाद्विकारम् । द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिरह्नः ॥
KA 3.46 उपजातिः
सव्रीडमन्दैरिव निष्क्रियत्वान्नात्यर्थमस्त्रैरवभासमानः । यशःक्षयक्षीणजलार्णवाभस्त्वमन्यमाकारमिवाभिपन्नः ॥
KA 3.47 इन्द्रवज्रा
दुःशासनामर्षरजोविकीर्णैरेभिर्विनार्थैरिव भाग्यनाथैः । केशैः कदर्थीकृतवीर्यसारः कच्चित्स एवासि धनंजयस्त्वम् ॥
KA 3.48 उपजातिः
स क्षत्त्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः । वहन्द्वयीं यद्यफलेऽर्थजाते करोत्यसंस्कारहतामिवोक्तिम् ॥
KA 3.49 उपजातिः
वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिमपेक्षमाणाः । समानदुःखा इव नस्त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥
KA 3.50 इन्द्रवज्रा
आक्षिप्यमाणं रिपुभिः प्रमादान्नागैरिवालूनसटं मृगेन्द्रम् । त्वां धूरियं योग्यतयाधिरूढा दीप्त्या दिनश्रीरिव तिग्मरश्मिम् ॥
KA 3.51 उपजातिः
करोति योऽशेषजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः । संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥
KA 3.52 उपेन्द्रवज्रा
प्रियेषु यैः पार्थ विनोपपत्तेर्विचिन्त्यमानैः क्लममेति चेतः । तव प्रयातस्य जयाय तेषां क्रियादघानां मघवा विघातम् ॥
KA 3.53 उपजातिः
मा गाश्चिरायैकचरः प्रमादं वसन्नसम्बाधशिवेऽपि देशे । मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि ॥
KA 3.54 उपजातिः
तदाशु कुर्वन्वचनं महर्षेर्मनोरथान्नः सफलीकुरुष्व । प्रत्यागतं त्वास्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा ॥
KA 3.55 उपजातिः
उदीरितां तामिति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् । आसाद्य वाचं स भृशं दिदीपे काष्ठामुदीचीमिव तिग्मरश्मिः ॥
KA 3.56 वंशस्थम्
अथाभिपश्यन्निव विद्विषः पुरः पुरोधसारोपितहेतिसंहतिः । बभार रम्योऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥
KA 3.57 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् । अगतावरिदृष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥
KA 3.58 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
यशसेव तिरोदधन्मुहुर्महसा गोत्रभिदायुधक्षतीः । कवचं च सरत्नमुद्वहञ्ज्वलितज्योतिरिवान्तरं दिवः ॥
KA 3.59 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अकलाधिपभृत्यदर्शितं शिवमुर्वीधरवर्त्म सम्प्रयान् । हृदयानि समाविवेश स क्षणमुद्बाष्पदृशां तपोभृताम् ॥
KA 3.60 मालिनी
अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः+ सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने । प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं भुवमनिभृतवेलावीचिबाहुः पयोधिः ॥
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →