आगाधत ततो व्योम हनूमानुरु-विग्रहः ।अत्यशेरत तद्-वेगं न सुपर्णाऽर्क-मारुताः ॥
अभायत यथाऽर्केण सुप्रातेन शरन्-मुखे । गम्यमानं न तेनाऽऽसीदगतं क्रामता पुरः ॥
वियति व्यत्यतन्वातां मूर्ती हरि-पयोनिधी । व्यत्यैतां चोत्तमं मार्गमर्केन्द्रेन्दु-निषेवितम् ॥
व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतः । व्यत्यगच्छन्न च गतं प्रचण्डोऽपि प्रभञ्जनः ॥
व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसीं पवनाऽऽत्मजः । जघानाऽऽविश्य वदनं निर्यात्भित्त्वोदरं द्रुतम् ॥
अन्योन्यं स्म व्यतियुतः शब्दान्शब्दैस्तु भीषणान् ।उदन्वांश्चानिलोद्धूतो म्रियमाणा च राक्षसी ॥
न्यविक्षत महा-ग्राह-संकुलं मकराऽऽलयम् । सैका बहूनां कुर्वाणा नक्राणां स्वाऽऽशितम्भवम् ॥
कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम् । पित्रा संरक्षितं शक्रात्स मैनाकाऽद्रिमैक्षत ॥
खं पराजयमानोऽसावुन्नत्य पवनाऽत्मजम् । जगादाऽद्रिर् "विजेषीष्ठा मयि विश्रम्य वैरिणम् ॥
फलान्यादत्स्व चित्राणि परिक्रीडस्व सानुषु । साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम् ॥
क्षणं भद्राऽवतिष्ठस्व ततः प्रस्थास्यसे पुनः । न तत्संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया ॥
त्वयि नस्तिष्ठते प्रीतिस्तुभ्यं तिष्ठामहे वयम् ।उत्तिष्ठमानं मित्राऽर्थे कस्त्वां न बहु मन्यते ॥
ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्या-त्रयं द्विजाः । रक्षोभिस्तापितास्तेऽपि सिद्धिं द्यायन्ति तेऽधुना ॥
अ-व्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत् । रविर्वितपतेऽत्यर्थमाश्वस्य मयि गम्यताम् ॥
तीव्रमुत्तपमानोऽयम-शक्यः सोढुमातपः ।आघ्नान इव संदीप्तैरलातैः सर्वतो मुहुः ॥
संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः । समारन्त ममाऽभीष्टाः संकल्पास्त्वय्युपागते ॥
के न संविद्रते वायोर्मैनाकाऽद्रिर्यथा सखा । यत्नादुपाह्वये प्रतीतः संह्वयस्व विवक्षितम् ॥
द्यामिवावयमानं तमवोचद्भूधरं कपिः ।उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीवि-वत् ॥
"कुल-भार्यां प्रकुर्वाणमहं द्रष्टुं दशाननम् । यामि त्वरा-वान्शैलेन्द्र ! मा कस्यचिदुपस्कृथाः ॥
योऽपचक्रे वनात्सीतामधिचक्रे न यं हरिः । विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम् ॥
विकुर्वे नगरे तस्य पापस्याऽद्य रघु-द्विषः । विनेष्ये वा प्रियान्प्राणानुदानेष्येऽथवा यशः ॥
विनेष्ये क्रोधमथवा क्रममाणोऽरि-संसदि" ।इत्युक्त्वा खे पराक्रंस्त तूर्णं सूनुर्नभस्वतः ॥
परीक्षितुमुपाक्रंस्त राक्षसी तस्य विक्रमम् । दिवमाक्रममाणेव केतु-तारा भय-प्रदा ॥
जले विक्रममाणाया हनूमान्शत-योजनम् ।आस्यं प्रविश्य निरयादणूभूयाऽप्रचेतितः ॥
द्रष्टुं प्रक्रममाणोऽसौ सीतामम्भोनिधेस्तटम् ।उपाक्रंस्ताऽऽकुलं घोरैः क्रममाणैर्निशाचरैः ॥
आत्मानमपजानानः शश-मात्रोऽनयद्दिनम् । ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रिया-पटुः ॥
संजानानान्परिधरन्रावणाऽनुचरान्बहून् । लङ्कां समाविशद्रात्रौ वदमानोऽरि-दुर्गमाम् ॥
किंचिन्नोपावदिष्टाऽसौ केनचिद्व्यवदिष्ट न । शृण्वन्संप्रवदमानाद्रावणस्य गुणान्जनात् ॥
जल्पितोत्क्रुष्ट-संगीत-प्रनृत्त-स्मित-वल्गितैः । घोषस्यान्ववदिष्टेव लङ्का पुता-क्रतोः पुरः ॥
ऐद्विप्रवदमानैस्तां संयुक्तां ब्रह्म-राक्षसैः । तथाऽवगिरमाणैश्च पिशाचैर्माम्स-शोणितम् ॥