अवाद्वायुः शनैर्यस्यां लतां नर्तयमान-वत् । नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्य-संपदः ॥
ज्योत्स्नाऽमृतं शशी वस्यां वापीर्विकसितोत्पलाः ।अपाययत संपूर्णः सदा दश-मुखाऽऽज्ञया ॥
प्रादमयन्त पुष्पेषुं यस्यां बन्द्यः समाहृताः । परिमोहयमाणाभी राक्षसीभिः समावृताः ॥
यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात् । न त्वरोचयताऽऽत्मानं चतुरो वृद्धि-मानपि ॥
मन्दायमान-गमनो हरितायत्-तरुं कपिः । द्रुमैः शकशकायद्भिर्मारुतेनाऽऽट सर्वतः ॥
अस्यन्दन्निन्दु-मणयतो व्यरुचन्कुमुदाऽऽकराः ।अलोठिषत वातेन प्रकीर्णः स्तबकोच्चयाः ॥
सीताऽन्तिके विवृत्सन्तं वर्त्स्यत्-सिद्धिं प्लवङ्गमम् । पतत्रिणः शुभा मन्द्रमानुवानास्त्वजिह्लदन् ॥
वर्तिष्यमाणमात्मानं सीता पत्युरिवाऽन्तिके ।उदपश्यत्तदा तथ्यैर्निमित्तैरिष्ट-दर्शनैः ॥
"निरवर्त्स्यन्न चेद्वार्ता सीताया वितथैव नः ।अकल्प्स्यदुद्यतिः सर्वा" हनूमानित्यचिन्तयत् ॥
वृक्षाद्वृक्षं परिक्रामन्रावणाद्बिभ्यतीं भृशम् । शत्रोस्त्राणम-पश्यन्तीम-दृश्यो जनकाऽऽत्मजाम् ॥
तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात् ।अन्तर्दधानां रक्षोभ्यो मलिनां म्लान-मूर्धजाम् ॥
रामादधीत-संदेशो वायोर्जातश्च्युत-स्मिताम् । प्रभवन्तीमिवादित्यादपश्यत्कपि-कुञ्जरः ॥
रोचमानः कु-दृष्टिभ्यो रक्षोभ्यः प्रत्तवान्श्रियम् । श्लाघमानः पर-स्त्रीभ्यस्तत्रऽऽगाद्राक्षसाऽधिपः ॥
अशप्त निह्नुवानोऽसौ सीतायौ स्मर-मोहितः । धारयान्निव चैतस्यै वसूनि प्रत्यपद्यत ॥
तस्यै स्पृहयमाणोऽसौ बहु प्रियमभाषत । सानुनीतिश्च सीतायै नऽक्रुध्यन्नाप्यसूयत ॥
"संक्रुध्यसि मृशा किं त्वं दिदृक्षुं मां मृगेक्षणे ! ।ईक्षितव्यं पर-स्त्रीभ्यः स्व-धर्मो रक्षसामयम् ॥
शृण्वद्भ्यः प्रतिशृण्वन्ति मध्यमा भीरु ! नोत्तमाः । गृणद्भ्योऽनुगृणन्त्यन्येऽकृताऽर्था नैव मद्-विधाः ॥
इच्छ स्नेहेन दीव्यन्ती विषयान्भुवनेश्वरम् । संभोगाय परिक्रीतः कर्तास्मि तव नाऽप्रियम् ॥
आस्स्व साकं मया सौधे माऽधिष्ठा निर्-जनं वनम् । माऽधिवात्सीर्भुवं शय्यामधिशेष्व स्मरोत्सुका ॥
अभिन्यविक्षथास्त्वं मे यथैवाऽव्याहता मनः । तवाऽप्यध्यावसन्तं मां मा रौत्सीर्हृदयं तथा ॥
माऽवमंस्था नामस्यन्तम्-कार्य-ज्ञे ! जगत्-पतिम् । संदृष्टे मयि काकुत्स्थम-धन्यं कामयेत ? का ॥
यः पयो दोग्धि पाषाणं स रामाद्भूतिमाप्नुयात् । रावणं गमय प्रीतिं बोधयन्तं हिताऽहितं ॥
प्रीतोऽहं भोजयिष्यामि भवतीं भुवन-त्रयम् । किं विलापयसेऽत्यर्थं पार्श्वे शायय रावणम् ॥
आज्ञां कारय रक्षोभिर्मा प्रियाण्युपहारय । कः शक्रेण कृतं नेच्छेदधिमुर्धानमञ्जलिम् ॥
वचनं रक्षसां पत्युरनु क्रुद्धा पति-प्रिया । पापाऽनुवासितं सीता रावणं प्राब्रवीद्वचः ॥
"न भवाननु रामं चेदुप शूरेषु वा ततः ।अपवाह्य च्छलाद्वीरौ किमर्थं मामिहाऽहरः ॥
"उप-शूरं न ते वृत्तं कथं रात्रिंचराऽधम ! । यत्संप्रत्यपलोकेभ्यो लङ्कायां वसतिर्भयात् ॥
आ राम-दर्शनात्पाप ! विद्योतस्व स्त्रियः प्रति । सद्-वृत्ताननु दुर्-वृत्तः परस्त्रीं जात-मन्मथः ॥
अभि द्योतिष्यते रामो भवन्तम-चिरादिह ।उद्गूर्ण-बाणः संग्रामे यो नारायणतः प्रति ॥
कुतोऽधियास्यसि क्रूर ! निहतस्तेन पत्रिभिः । न सूक्तं भवताऽत्युग्रमतिरामं मदोद्धत ! ॥