परिशेषं न नामाऽपि स्थापयिष्यति ते विभुः ।अपि स्थाणुं जयेद्रामो भवतो ग्रहणं कियत् ॥
अपि स्तूह्यपिसेधाऽस्मांस्तथ्यमुक्तं नराऽशन् ! ।अपि सिञ्चेः कृशानौ त्वं दर्पं मय्यपि योऽभिकः ॥
अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम्" ।इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम् ॥
ततः खड्गं समुद्यम्य रावणः क्रूर-विग्रहः । वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन् ॥
"चिरेणाऽनुगुणं प्रोक्ता प्रतिपत्ति-पराङ्मुखी । न मासे प्रतिपत्तासे मां चेन्मर्तासि मैथिलि !" ॥
प्रायुङ्क्त राक्षसीर्भीमा मन्दिराय प्रतिव्रजन् । "भयानि दत्त सीतायै सर्वा यूयं कृते मम।" ॥
गते तस्मिन्समाजग्मुर्भयाय प्रति मैथिलीम् । राक्षस्यो रावण-प्रीत्यै क्रूरं चोचुरलं मुहुः ॥
"रावणाय नमस्कुयाः स्यात्सीते ! स्वस्ति ते ध्रुवम् ।अन्यथा प्रातराशाय कुर्याम त्वामलं वयम् ॥
तृणाय मत्वा ताः सर्वा वदन्तीस्त्रिजटाऽवदत् । "आत्मानं हत दुर्वृत्ताः ! स्व-मांसैः कुरुताऽशनम् ॥
अद्य सीता मया दृष्टा सूर्यं चन्द्रमसा सह । स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना ॥
तास्तया तर्जिताः सर्वा मुखैर्भीमा यथाऽऽगतम् । ययुः सुषुप्सवस्तल्पं भीमैर्वचन-कर्मभिः ॥
गतासु तासु मैथिल्या संजानानोऽनिलाऽऽत्मजः ।आयातेन दशाऽऽस्यस्य संस्थितोऽन्तर्हितश्चिरम् ॥
ऋणाद्बद्ध इवान्मुक्तो वियोगेन क्रतु-द्विषः । हेतोर्बोधस्य मैथिल्याः प्रास्तावीद्राम-संकथाम् ॥
तं दृष्ट्वाऽचिन्तयत्सीता-"हेतोः कस्यैष रावणः ।अवरुह्य तरोरारादैति वानर-विग्रहः ॥
पूर्वस्मादन्य-वद्भाति भावाद्दाशरथिं स्तूवन् । ऋते क्रौर्यात्समायातो मां विश्वासयितुं नु किम् ? ॥
इतरो रावणादेष राघवाऽनुचरो यदि । स-फलानि निमित्तानि प्राक्प्रभातात्ततो मम ॥
उत्तराहि वसन्रामः समुद्राद्रक्षसां पुरम् ।अवैल्लवण-तोयस्य स्थितां दक्षिणतः कथम् ॥
दण्डकान्दक्षिणेनाऽहं सरितोऽद्रीन्वनानि च ।अतिक्रम्याऽम्बुधिं चैव पुंसामगममाहृता ॥
पृथङ्नभस्वतश्चण्डाद्वैनतेयेन वा विना । गन्तुमुत्सहते नेह कश्चित्किमुत वानरः ॥
इति चिन्ता-वतीं कृच्छ्रात्समासाद्य कपि-द्विपः । मुक्तां स्तोकेन रक्षोभिः प्रोचे"ऽहं राम-किङ्करः ॥
विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्य-पर्वतात् । नाऽनभ्याशे समुद्रस्य तव माल्यवति प्रियः ॥
अ-संप्राप्ते दश-ग्रीवे प्रविष्टोऽहमिदं वनम् । तस्मिन्प्रतिगते द्रष्टुं त्वामुपाक्रंस्यचेतितः ॥
तस्मिन्वदति रुष्टोऽपि नाऽकार्षं देवि ! विक्रमम् ।अ-विनाशाय कार्यस्य विचिन्वानः परापरम् ॥
वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा । जातो रामस्य सुग्रीवस्ततो दूतोऽहमागतः ॥
ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम् । कुशलोऽन्वेषणस्याऽहमायुक्तो दूत-कर्मणि ॥
दर्शनीय-तमाः पश्यन्स्त्रीषु दिव्यास्वपि स्त्रियः । प्राप्तो व्याल-तमान्व्यस्यन्भूजङ्गेभ्योऽपि राक्षसान् ॥
भवत्यामुत्सुको रामः प्रसितः संगमेन ते । मघासु कृत-निर्वापः पितृभ्यो मां व्यसर्जयत् ॥
अयं मैथिल्यभिज्ञानं काकुत्स्थस्याऽङ्गुलीयकः । भवत्या स्मरताऽत्यर्थमर्पितः सादरं मम ॥
रामस्य दयमानोऽसावध्येति तव लक्ष्मणः ।उपास्कृषातां राजेन्द्रावागमस्येह मा त्रसीः ॥
रावणस्येह रोक्ष्यन्ति कपयो भीम-विक्रमाः । धृत्या नाथस्व वैदेहि ! मन्योरुज्जासयाऽऽत्मनः ॥