सुग्रीवाऽन्तिकमासेदुः सादयिष्याम इत्यरिम् । करिष्यन्त इवाऽकस्माद्भुवनं निर्-दशाननम् ॥
कर्ताऽस्मि कार्यमायातैरेभिरित्यवगम्य सः । काकुत्स्थ-पादप-च्छायां सीत-स्पर्शामुपागमत् ॥
कार्यं सार-निभं दृष्ट्वा वानराणां समागमम् ।अवैन्नाशं दशाऽऽस्यस्य निर्वृत्तमिव राघवः ॥
ततः कपि-समाहारमेऽकनिश्चायमागतम् ।उपाध्यायऽइवाऽऽयामं सुग्रीवोऽध्यापिपद्दिशाम् ॥
स-जलाऽम्भो-द-संरावं हनु-मन्तं सहाऽङ्गदम् । जाम्बवं नील-सहितं चारु-सन्द्रावमब्रवीत् ॥
"यात यूयं यम-श्रायं दिशं नायेन दिक्षणाम् । विक्षावस्तोय-विश्रावं तर्जयन्तो महोदधेः ॥
उन्नायानधिगच्छन्तः प्रद्रावैर्वसुधा-भृताम् । वनाऽभिलावान्कुर्वन्तः स्वेच्छया चारु-विक्रमाः ॥
सदोद्गार-सुगन्धीनां फलानामलमाशिताः ।उत्कारेषु च धान्यानामनभीष्ट-परिग्रहाः ॥
संस्तावमिव शृण्वन्तश्छन्दोगानां महाध्वरे । शिञ्जितं मधु-लेहानां पुष्प-प्रस्तार-शायिनाम् ॥
आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेः । स्वादयन्तः फल-रसं मुष्टि-संग्राह-पीडितम् ॥
न्याय्यं यद्यत्र तत्कार्यं पर्यायेणाऽविरोधिभिः । निशोपशायः कर्तव्यः फलोच्चायश्च संहतैः ॥
सीता रक्षो-निकायेषु स्तोक-कायैश्छलेन च । मृग्या शत्रु-निकायानां व्यावहासीमनाश्रितैः ॥
सांराविणं न कर्तव्यं यावन्नाऽऽयाति दर्शनम् । संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरेः ॥
प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैः । ज्ञातव्या चेङ्गितैर्ध्यायन्ती राघवाऽऽगमम् ॥
वेदि-वत्स-परिग्राहा यज्ञयैः संस्कृता द्विजैः । दृश्या मास-तमागह्नः प्राग-निन्दित-वेश-भृत् ॥
नीवार-फल-मूलाऽशानृषीनप्यतिशेरते । यस्य गुणा निरुद्द्रावास्तां द्रुतं यात पश्यत ॥
उच्छ्राय-वान्घनाऽऽरावो वानरं जलदाऽरवम् । दूराऽऽप्लावं हनू-मन्तं रामः प्रोचे गजाऽऽप्लवः ॥
"अवग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः । प्रर्थयध्वं तथा सीतां यात सुग्रीव-शासनम् ॥
वणिक्प्रग्राह-वान्यद्वत्काले चरति सिद्धये । देशाऽपेक्षास्तथा यूयं याताऽऽदायाऽङ्गुलीयकम्।" ॥
अभिज्ञानं गृहीत्वा ते समुत्पेतुर्नभस्-तलम् । वाजिनः स्यन्दने भानोर्विमुक्त-प्रग्रहा इव ॥
उदक्शतवलिं कोट्या सुषेणं पक्षिमां तथा । दिशं प्रास्थापयद्राजा वानराणां कृत-त्वरः ॥
प्राचीं तावद्भिर-व्यग्रः कपिभिर्विनतो ययौ ।अ-प्रग्राहैरिवाऽऽदित्यो वाजिभिर्-दूर-पातिभिः ॥
ययुर्विन्ध्यं शरन्-मेघैः प्रावारैः प्रवरैरिव । प्रच्छन्नं मारुति-प्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः ॥
परिभावं मृगेन्द्राणां कुर्वन्तो नग-मूर्धसु । विन्ध्ये तिग्मांशु-मार्गस्य चेरुः परिभवोपमे ॥
भ्रेमुः शिलोच्चयांस्तुङ्गानुत्तेरुरतरान्नदान् ।आशंसवो लवं शत्रोः सीतायाश्च विनिश्चयम् ॥
आदरेण गमं चक्रुर्विषमेस्वप्य-सङ्घसाः । व्याप्नुवन्तो दिशोऽन्यादान्कुर्वन्तः स-व्यधान्हरीन् ॥
संचेरुः स-हसाः केचिद-स्वनाः केचिदाटिषुः । संयाम-वन्तो यति-वन्निगदानपरेऽमुचन् ॥
अथ क्लमाद-निःक्वाणा नराः क्षीण-पणा इव ।अ-मदाः सेदुरेकस्मिन्नितम्बे निखिला गिरेः ॥
ततः स-संमदास्तत्र निरैक्षन्त पतत्रिणः । गुहा-द्वारेण निर्यातः समजेन पशूनिव ॥
वीनामुपसरं दृष्ट्वा तेऽन्योन्यापहवा गुहाम् । प्राविशन्नाहव-प्रज्ञा आहावमुपलिप्सवः ॥