Skip to main content
Search
BK
Bhaṭṭikāvyam • Chapter 06

Canto 6

षष्ठः सर्गः

Canto 6 of Bhaṭṭikāvyam.

Total: 143 Verses • Citations: BK 6.1–143 • 1 Lexicon Terms • Page 3 of 5 (Verses 30 shown)
BK 6.61 अनुष्टुप्
प्रगृह्य-पद-वत्साध्वीं स्पष्ट-रूपाम-विक्रियाम् ।अ-गृह्यां वीत-काम-त्वाद्देव-गृह्याम-निन्दिताम् ॥
BK 6.62 अनुष्टुप्
धर्म-कृत्य-रतां नित्यम-कृष्य-फल-भोजनाम् । दृष्ट्वा ताममुचद्रामो युग्याऽऽयात इव श्रमम् ॥
BK 6.63 अनुष्टुप्
स तामूचेऽथ-"कच्चित्त्वममावास्या-समन्वये । पित्णां कुरुषे कार्यम-पाक्यैः स्वादुभिः फलैः ॥
BK 6.64 अनुष्टुप्
अवश्य-पाव्यं पवसे कच्चित्त्वं देव-भाग्घ्विः ।आसाव्यमध्वरे सोमं द्विजैः कच्चिन्नमस्यसि ॥
BK 6.65 अनुष्टुप्
आचाम्यं संध्ययोः कच्चित्सत्यक्ते न प्रहीयते । कच्चिदग्निमिवाऽऽनाय्यं काले संमन्यसेऽतिथिम् ॥
BK 6.66 अनुष्टुप्
न प्रणाय्यो जनः कच्चिन्निकाय्यं तेऽधितिष्ठति । देव-कार्य-विघाताय धर्मद्रोही महोदये ! ॥
BK 6.67 अनुष्टुप्
कुण्ड-पाय्य-वतां कच्चिदग्निचित्या-वतां तथा । कथाभी रमसे नित्यमुपचाय्य-वतां शुभे ! ॥
BK 6.68 अनुष्टुप्
वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्न-नायकान् ।अजैषीः कामसंमोहौ संप्राप्था विनयेन वा ॥
BK 6.69 अनुष्टुप्
नाऽऽयस्यसि तपस्यन्ती गुरून्सम्यगतूतुषः । यमान्नोदविजिष्ठास्त्वं निजाय तपसेऽतुषः" ॥
BK 6.70 अनुष्टुप्
अथाऽर्ध्यं मधुपर्काऽऽद्यमुपनीयाऽऽदरादसौ ।अर्चयित्वा फलैरर्च्यौ सर्वत्राऽऽख्यदनामयम् ॥
BK 6.71 अनुष्टुप्
"सख्यस्य तव सुग्रीवः कारकः कपि-नन्दनः । द्रुतं द्रष्टासि मैथिल्पाः" सैवमुक्त्वा तिरोऽभवत् ॥
BK 6.72 अनुष्टुप्
नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् । वनानि भेजतुर्वीरौ ततः पाम्पानि राघवौ ॥
BK 6.73 अनुष्टुप्
"भृङ्गाऽऽली-कोकिल-क्रुङ्भिर्वाशनैः पश्य लक्ष्मण ! । रोचनैर्भूषितां पम्पा- मस्माकं हृदयाविधम् ॥
BK 6.74 अनुष्टुप्
परिभावीणि ताराणां पश्य मन्थीनि चेतसाम् ।उद्भासीनि जले-जानि दुन्वन्त्य्-अदयितं जनम् ॥
BK 6.75 अनुष्टुप्
सर्वत्र दयिताऽधीनं सु-व्यक्तं रामणीयकम् । येन जातं प्रियाऽपाये कद्-वदं हंस-कोकिलम् ॥
BK 6.76 अनुष्टुप्
पक्षिभिर्वितृदैर्यूना शाखिभिः कुसुमोत्किरैः ।अ-ज्ञो यो यस्य वा नाऽस्ति प्रियः प्रग्लो भवेन्न सः ॥
BK 6.77 अनुष्टुप्
ध्वनीनामुद्धमैरेभिर्मधूनामुद्धयैर्भृशम् ।आजिघ्रैः पुष्प-गन्धानां पतगैर्ग्लपिता वयम् ॥
BK 6.78 अनुष्टुप्
धारयैः कुसुमोर्मीणां पारयैर्बाधितुं जनान् । शाखिभिर्हा हता भूयो हृदयानामुदेजयैः ॥
BK 6.79 अनुष्टुप्
ददैर्दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम् । लिम्पैरिव तनोर्वातैश्चेतयः स्याज्ज्वलो न कः ॥
BK 6.80 अनुष्टुप्
अवश्याय-कणाऽऽस्रावाश्चारु-मुक्ता-फल-त्विषः । कुर्वन्ति चित्त-संस्रावं चलत्-पर्णाऽग्र-संभृताः ॥
BK 6.81 अनुष्टुप्
अवसायो भविष्यामि दुःखस्याऽस्य कदा न्वहम् । न जीवस्याऽवहारो मां करोति सुखिनं यमः ॥
BK 6.82 अनुष्टुप्
दह्येऽहं मधुनो लेहैर्दावैरुग्रैर्यथा गिरिः । नायः कोऽत्र स येन स्यां बताऽहं विगत-ज्वरः ॥
BK 6.83 अनुष्टुप्
समाविष्टं ग्रहेणेव ग्राहेणेवाऽऽत्तमर्णवे । दृष्ट्वा गृहान्स्मरस्येव वनाऽन्तान्मम मानसम् ॥
BK 6.84 अनुष्टुप्
वाताऽऽहति-चलच्-छाखा नर्तका इव शाखिनः । दुःसहा ही परिक्षिप्ताः क्वणद्भिरलि-गाथकैः ॥
BK 6.85 अनुष्टुप्
एक-हायन-सारङ्ग-गती रघु-कुलोत्तमौ । लवकौ शत्रु-शक्तीनामृष्यमूकमगच्छताम् ॥
BK 6.86 अनुष्टुप्
तौ वालि-प्रणिधी मत्वा सुग्रीवोऽचिन्तयत्कपिः । "बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्।" ॥
BK 6.87 अनुष्टुप्
स शत्रु-लावौ मन्वानो राघवौ मलयं गिरिम् । जगाम स-परीवारो व्योम-मायमिवोत्थितम् ॥
BK 6.88 अनुष्टुप्
शर्म-दं मारुतिं दूतं विषम-स्थः कपि-द्विपम् । शोकाऽपनुदम-व्यग्रं प्रायुङ्क्त कपि-कुञ्जरः ॥
BK 6.89 अनुष्टुप्
विश्वास-प्रद-वेषोऽसौ पथि-प्रज्ञः समाहितः । चित्त-संख्यो जिगीषूणामुत्पपात नभस्-तलम् ॥
BK 6.90 अनुष्टुप्
सुरा-पैरिव घूर्णद्भिः शाखिभिः पवनाऽऽहतैः । ऋष्यमूकमगाद्भृङ्गैः प्रगीतं साम-गैरिव ॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →