सम्पत्य तत्-सनीडे-सौ तं वृत्तान्तमषिष्रवत् । त्रस्नुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाऽऽननः ॥
"अन्तर्धत्स्व रघु-व्याघ्रात्तस्मात्त्वं राक्षसेश्वर ! । यो रण्ने दुरुपस्थानो हस्त-रोधं दधद्धनुः ॥
भवन्तं कार्तवीर्यो यो हीन-सन्धिमचीकरत् । जिगाय तस्य हन्तारं स रामः सार्वलौकिकम् ॥
यमाऽऽस्य-दृश्वरी तस्य ताडका वेत्ति विक्रमम्। । शूरं-मन्यो रणाच्चाऽहं निरस्तः सिंह-नर्दिना ॥
न त्वं तेनाऽन्वभाविष्ठा नाऽन्वभावि त्वयाऽप्यसौ ।अनुभूतो मया चाऽसौ तेन चाऽन्वभविष्यहम् ॥
अध्यङ्शस्त्र-भृतां रामो न्यञ्चस्तं प्राप्य मद्-विधाः । स कन्या-शुल्कमभनङ्मिथिलायां मखे धनुः ॥
सं-वित्तः सह-युध्वानौ तच्-छक्तिं खर-दूषणौ । यज्वानश्च स-सुत्वानो यानगोपीन्मखेषु सः ॥
सुख-जातः सुरा-पीतो नृ-जग्धो माल्य-धारयः ।अधि-लङ्कं स्त्रियो दीव्य माऽऽरब्धा बलि-विग्रहम्।" ॥
तंभीतं-कारमाक्रुश्य रावणः प्रत्यभाषत । "यात-यामं विजितवान्स रामं यदि किं ततः ॥
अघानि ताडका तेन लज्जा-भय-विभूषणा । स्त्री-जने यदि तच्छ्लाघ्यं धिग्लोकं क्षुद्र-मानसम् ॥
यद्गेहे-नर्दिनमसौ शरैर्भीरुमभाययत् । कु-ब्रह्म-यज्ञ-के रामो भवन्तं पौरुषं न तत् ॥
चिर-कालोषितं जीर्णं कीट-निष्कुषितं धनुः । किं चित्रं यदि रामेण भग्नं क्षत्रिय-काऽन्तिके ॥
वन-तापस-के वीरौ विपक्षे गलिताऽऽदरौ । किं चित्रं यदि साऽवज्ञौ मम्रतुः खर-दूषणौ ॥
त्वं च भीरुः सु-दुर्बुद्धे ! नित्यं शरण-काम्यसि । गुणांश्चाऽपह्नुषेऽस्माकं स्तौषि शत्रूंश्च नः सदा ॥
शीर्षच्-छेद्यमतोऽहं त्वा करोमि क्षिति-वर्धनम् । कारयिष्यामि वा कृत्यं विजिघृक्षुर्वनौकसौ ॥
तमुद्यत-निषाताऽसिं प्रत्युवाच जिजीविषुः । मारीचोऽनुनयंस्त्रासाद् "अभ्यमित्र्यो भवामि ते ॥
हरामि राम-सौमित्री मृगो भूत्वा मृग-द्युवौ ।उद्योगमभ्यमित्रीणो यथेष्टं त्वं च सं-तनु।" ॥
ततश्चित्रीयमाणोऽसौ हेम-रत्न-मयो मृगः । यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन् ॥
तेनाऽदुद्यूषयद्रामं मृगेण मृग-लोचना । मैथिली विपुलोरस्कं प्रावुवूर्षुर्मृगाऽजिनम् ॥
योग-क्षेम-करं कृत्वा सीताया लक्ष्मणं ततः । मृगस्याऽनुपदी रामो जगाम गज-विक्रमः ॥
स्थायं स्थायं क्वचिद्यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित् । वीक्षमाणो मृगं रामश्चित्र-वृत्तिं विसिष्मिये ॥
चिरं क्लिशित्वा मर्मा-विद्रामो विलुभित-प्लवम् । शब्दायमानमव्यात्सीत्भय-दं क्षणदा-चरम् ॥
श्रुत्वा विस्फूर्जथु-प्रख्यं निनादं परिदेविनी । मत्वा कष्ट-श्रितं रामं सौमित्रिं गन्तुमैजिहत् ॥
"एष प्रावृषि-जाऽम्भो-द- नादी भ्राता विरौति ते । ज्ञातेयं कुरु सौमित्रे ! भयात्त्रायस्व राघवम्।" ॥
"राम-संघुषितं नैतन्मृगस्यैव विवञ्चिषोः । राम-स्वनित-सङ्काशः स्वान्"इत्यवदत्स ताम् ॥
"आप्यान-स्कन्ध-कण्ठांऽसं रुषितं सहितुं रणे । प्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु ! कः क्षमः ॥
देहं बिभ्नक्षुर-स्त्राऽग्नौ मृगः प्राणैर्दिदेविषन् । ज्या-घृष्ट-कठिनाऽङ्गुष्ठं राममायान्मुमूर्षया ॥
शत्रून्भीषयमाणं तं रामं विस्मापयेत कः । मा स्म भैषीस्त्वयाऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः" ॥
"यायास्त्वमिति कामो मे गन्तुमुत्सहसे न च ।इच्छुः कामयितुं त्वं माम्"इत्यसौ जगदे तया ॥
मृषोद्यं प्रवदन्तीं तां सत्य-वद्यो रघूत्तमः । निरगात् "शत्रु-हस्तं त्वं यास्यसी"ति शपन्वशी ॥