वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च । निर्याय तस्याः स पुरः समन्ता च्छ्रियं दधानां शरदं ददर्श ॥
तरङ्ग-सङ्गाच्चपलैः पलाशैर्ज्वाला-श्रियं साऽतिशयां दधन्ति । स-धूम-दीप्ताऽग्नि-रुचीनि रेजुस्ताम्रोत्पलान्याकुल-षट्-पदानि ॥
बिम्बाऽऽगतैस्तीर-वनैः समृद्धिं निजां विलोक्याऽपहृतां पयोभिः । कूलानि साऽऽमर्षतयेव तेनुः सरोज-लक्ष्मीं स्थल-पद्म-हासैः ॥
निशा-तुषारैर्नयनाऽम्बु-कल्पैः पत्रा-ऽन्त-पर्यागलदच्छ-बिन्दुः ।उपारुरोदेव नदत्-पतङ्गः कुमुद्वतीं तीर-तरुर्दिनाऽऽदौ ॥
वनानि तोयानि च नेत्र-कल्पैः पुष्पैः सरोजैश्च निलीन-भृङ्गैः । परस्परां विस्मयवन्ति लक्ष्मी- मालोकयाञ्चक्रुरिवाऽऽदरेण ॥
प्रभात-वाताहऽऽति-कम्पिताऽऽकृतिः कुमुद्वती-रेणु-पिशङ्ग-विग्रहम् । निरास भृङ्गं कुपितेव पद्मिनी न मानिनी संसहतेऽन्य-सङ्गमम् ॥
दत्ताऽवधानं मधु-लेहि-गीतौ प्रशान्त-चेष्टं हरिणं जिघांसुः ।आकर्णयन्नुत्सुक-हंस-नादान्लक्ष्ये समाधिं न दधे मृगावित् ॥
गिरेर्नितम्बे मरुता विभिन्नं तोयाऽवशेषेण हिमाऽऽभमभ्रम् । सरिन्-मुखाऽभ्युच्चयमादधानं शैलाऽधिपस्याऽनुचकार लक्ष्मीम् ॥
गर्जन्हरिः साऽम्भसि शैल-कुञ्जे प्रतिध्वनीनात्म-कृतान्निशम्य । क्रमं बबन्ध क्रमितुं स-कोपः प्रतर्कयन्नन्य-मृगेन्द्र-नादान् ॥
अदृक्षताऽम्भांसि नवोत्पलानि रुतानि चाऽश्रोषत षट्-पदानाम् ।आघ्रायि वान्गन्ध-वहः सु-गन्धस्तेनाऽरविन्द-व्यतिषङ्ग-वांश्च ॥
लताऽनुपातं कुसुमान्यगृह्णात्स नद्यवस्कन्दमुपास्पृशच्च । कुतूहलाच्चारु-शिलोपवेशं काकुत्स्थ ईषत्स्मयमान आस्त ॥
तिग्मांशु-रश्मिच्-छुरितान्य-दूरात्प्राञ्चि प्रभाते सलिलान्यपश्यत् । गभस्ति-धाराभिरिव द्रुतानि तेजांसि भानोर्भुवि संभृतानि ॥
दिग्-व्यापिनीर्लोचन-लोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीः । ऋज्वाऽऽयताः शस्य-विशेष-पङ्क्तीस्तुतोष पश्यन्वितृणाऽन्तरालाः ॥
वियोग-दुःखाऽनुभवाऽनभिज्ञैः काले नृपांऽशं विहितं ददद्भिः ।आहार्य-शोभा-रहितैरमायै- रैक्षिष्ट पुम्भिः प्रचितान्स गोष्ठान् ॥
स्त्री-भूषणं चेष्टितम-प्रगल्भं चारूण्य-वक्राण्यपि वीक्षितानि । ऋजूंश्च विश्वास-कृतः स्वभावान्गोपाऽङ्गनानां मुमुदे विलोक्य ॥
विवृत्त-पार्श्वं रुचिराऽङ्गहारं समुद्वहच्-चारु-नितम्ब-रम्यम् ।आमन्द्र-मन्थ-ध्वनि-दत्त-तालं गोपाऽङ्गना-नृत्यमनन्दयत्तम् ॥
विचित्रमुच्चैः प्लवमानमारात्कुतूहलं त्रस्नु ततान तस्य । मेघाऽत्ययोपात्त-वनोपशोभं कदम्बकं वातमजं मृगाणाम् ॥
सिताऽरविन्द-प्रचयेषु च लीनाः संसक्त-पेणेषु च सैकतेषु । कुन्दाऽवदाताः कलहंस-मालाः प्रतीयीरे श्रोत्र-सुखैर्निनादैः ॥
न तज्जलं यन्न सु-चारु-पङ्कजं न पङ्कजं तद्यद-लीन-षट्-पदम् । न षट्-पदोऽसौ न जुगुञ्ज यः कलं; न गुञ्जितं तन्न जहार यन्मनः ॥
तं यायजूकाः सह भिक्षु-मुख्यैस्तपः-कृशाः शान्त्युदकुम्भ-हस्ताः । यायावराः पुष्प-फलेन चाऽन्ये प्राणर्चुरर्च्या जगदर्चनीयम् ॥
विद्यामथैनं विजयां जयां च रक्षो-गणं क्षिप्नुम-विक्षताऽऽत्मा ।अध्यापिपद्गाधि-सुतो यथावन्निघातयिष्यन्युधि यातुधानान् ॥
आयोधने स्थायुकमस्त्रजात- ममोघमभ्यर्ण-महाऽऽहवाय । ददौ वधाय क्षणदाचराणां तस्मै मुनिः श्रेयसि जागरूकः ॥
तं विप्र-दर्शं कृत-घात-यत्ना यान्तं वने रात्रिचरी डुढौके । जिघांसु-वेदं धृत-भासुराऽस्त्रम्तां ताडकाऽऽख्यां निजघान रामः ॥
अथाऽऽलुलोके हुत-धूम-केतु- शिखाऽञ्जन-स्निग्ध-समृद्ध-शाखम् । तपोवनं प्राध्ययनाऽभिभूत- समुच्चरच्-चारु-पतक्त्रि-शिञ्जम् ॥
क्षुद्रान्न जक्षुर्हरिणान्मृगेन्द्रा विशश्वसे पक्षि-गणैः समन्तात् । नन्नम्यमानाः फल-दित्सयेव चकाशिरे तत्र लता विलोलाः ॥
अपूपुजन्विष्टर-पाद्य-माल्यै- रातिथ्य-निष्णा वन-वासि-मुख्याः । प्रत्यग्रहीष्टां मधुपर्क-मिश्रं तावासनाऽऽदि क्षिति-पालपुत्रौ ॥
दैत्याऽभिभूतस्य युवामवोढं मग्नस्य दोर्भिर्भुवनस्य भारम् । हवींषि संप्रत्यपि रक्षतं तौ तपोधनैरित्थमभाषिषाताम् ॥
तान्प्रत्यवादीदथ राघ्वोऽपि-- यथेप्सितं प्रस्तुत कर्म धर्म्यम् । तपो-मरुद्धिर्भवतां शराऽग्निः संधुक्ष्यतां नोऽरि-समिन्धनेषु ॥
प्रतुष्टुवुः कर्म ततः प्रक्wxल्क़्क़्प्तैस्ते यज्ञियैर्द्रव्य-गणैर्यथावत् । दक्षिण्य-दिष्टं कृतमार्त्विजीनैस्तद्यातुधानैश्चिचिते प्रसर्पत् ॥
आपिङ्ग-रूक्षोर्ध्व-शिरस्य-बालैः शिराल-जङ्घैर्गिरि-कूट-दघ्नैः । ततः क्षपाऽटैः पृथु-पिङ्गलाऽक्षैः खं प्रावृषेण्यैरिव चाऽऽनशेऽब्दैः ॥