अभून्नृपो विबुध-सखः परं-तपः श्रुताऽन्वितो दश-रथ इत्युदाहृतः । गुणैर्वरं भुवन-हितच्-छलेन यं सना-तनः पितरमुपागमत्स्वयम् ॥
सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट पितॄनपारीत्सममंस्त बन्धून् । व्यजेष्ट षड्वर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्च ॥
वसूनि तोयं घन-वद्व्यकारीत्सहाऽऽसनं गोत्र-भिदाऽध्यवात्सीत् । न त्र्यम्बकादन्यमुपास्थिताऽसौ यशांसि सर्वेषु-भृतां निरास्तत् ॥
पुण्यो महा-ब्रह्म-समूह-जुष्टः संतर्पणो नाक-सदां वरेण्यः । जज्वाल लोक-स्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः ॥
स पुण्य-कीर्तिः शत-मन्यु-कल्पो महेन्द्र-लोक-प्रतिमां समृद्ध्या ।अध्यास्त सर्वर्तु-सुखामयोध्या- मध्यासितां ब्रह्मभिरिद्ध-बोधैः ॥
निर्माण-दक्षस्य समीहितेषु सीमेव पद्माऽऽसन-कौशलस्य ।ऊर्ध्व-स्फुरद्-रत्न-गभस्तिभिर्या स्थिताऽवहस्येव पुरं मघोनः ॥
सद्-रत्न-मुक्ता-फल-वज्र-भाञ्जि विचित्र-धातूनि स-काननानि । स्त्रीभिर्युतान्यप्सरसामिवौघैर्मेरोः शिरांसीव गृहाणि यस्याम् ॥
अन्तर्-निविष्टोज्ज्वल-रत्न-भासो गवाक्ष-जालैरभिनिष्पतन्त्यः । हिमाऽद्रि-टङ्कादिव भान्ति यस्यां गङ्गाऽम्बु-पात-प्रतिमा गृहेभ्यः ॥
धर्म्यासु कामाऽर्थ-यशस्-करीषु मतासु लोकेऽधिगतासु काले । विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु ॥
पुत्रीयता तेन वराऽङ्गनाभि- रानायि विद्वान्क्रतुषु क्रियावान् । विपक्त्रिम-ज्ञान-गतिर्मनस्वी मान्यो मुनिः स्वां पुरमृष्य शृङ्गः ॥
ऐहिष्ट तं कारयितुं कृताऽऽत्मा क्रतुं नृपः पुत्र-फलं मुनीन्द्रम् । ज्ञानाऽऽशयस्तस्य ततो व्यतानीत्स कर्मठः कर्म सुताऽनुबन्धम् ॥
रक्षांसि वेदीं परितो निरास्थ- दङ्गान्ययाक्षीद्भितः प्रधानम् । शेषाण्यहौषीत्सुत-संपदे च वरं वरेण्यो नृपतेरमार्गीत् ॥
निष्टां गते दक्त्रिम-सभय-तोषे विहित्रिमे कर्मणि राज-पत्न्यः । प्राशुर्हुतोच्छिष्टमुदार-वंश्यास्तिस्रः प्रसोतुं चतुरः सु-पुत्रान् ॥
कौसल्ययाऽसावि सुखेन रामः प्राक्केकयी-तो भरतस्ततोऽभूत् । प्रासोष्ट शत्रु-घ्नमुदार-चेष्ट- मेका सुमित्रा सह लक्ष्मणेन ॥
आर्चीद्द्वि-जातीन्परमाऽर्थ-विन्दा- नुदेजयान्भूत-गणान्न्यषेधीत् । विद्वानुपानेष्ट च तान्स्व-काले यतिर्वशिष्टो यमिनां वरिष्ठः ॥
वेदोऽङ्गवांस्तौरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि । ते भिन्न-वृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः ॥
ततो-भ्यगाद्गाधि-सुतः क्षितीन्द्रं रक्षोभिरभ्याहत-कर्म-वृत्तिः । रामं वरीतुं परिरक्षणा-र्थं राजाऽऽजिहत्तं मधुपर्क-पाणिः ॥
ऐषीः पुनर्-जन्म-जयाय यत्त्वं रूपाऽऽदि-बोधान्न्यवृतच्च यत्ते । तत्त्वान्यबुद्धाः प्रतिनूनि येन ध्यानं नृपस्तच्छिवमित्यवादीत् ॥
आख्यन्मुनिस्तस्य शिवं समाधेर्विघ्नन्ति रक्षांसि वने क्रतूंश्च । तानि द्विषद्-वीर्य-निराकरिष्णुस्तृणेढु रामः सह लक्ष्मणेन ॥
स शुश्रुवांस्तद्-वचनं मुमोह राजाऽसहिष्णुः सुत-विप्रयोगम् ।अहंयुनाऽथ क्षिति-पः शुभंयु- रूचे वचस्तापस-कुञ्जरेण ॥
मया त्वमाप्थाः शरणं भयेषु वयं त्वयाऽप्याप्स्महि धर्म-वृद्ध्यै । क्षत्रं द्विज-त्वं च परस्पराऽर्थं शङ्कां कृथा मा प्रहिणु-स्व-सूनुम् ॥
घानिष्यते तेन महान्विपक्षः स्थायिष्यते येन रणे पुरस्तात् । मा मां महाऽऽत्मन्परिभूर्-योग्ये न मद्-विधो न्यस्यति भारमग्र्यम् ॥
क्रुध्यन्कुलं धक्ष्यति विप्र-वह्निर्यास्यन्सुतस्तप्स्यति मां स-मन्युम् ।इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्य ॥
आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे पुनराश्रमाय । तं पृष्ठ-तः प्रष्ठमियाय नम्रो हिंस्रेषु-दीप्ताऽऽप्त-धनुः कुमारः ॥
प्रयास्यतः पुण्य-वनाय जिष्णो- रामस्य रोचिष्णु-मुखस्य घृष्णुः । त्रै-मातुरः कृत्स्न-जिताऽस्त्र-शस्त्रः सध्र्यङ्रतः श्रेयसि लक्ष्मणोऽभूत् ॥
इषु-मति रघु-सिंहे दन्दशूकाञ्जिघांसौ धनुररिभिर-सह्यं मुष्टि-पीडं दधाने । व्रजति पुर-तरुण्यो बद्ध-चित्राऽङ्गुलित्रे कथमपि गुरु-शोकान्मा रुदन्माङ्गलिक्यः ॥
अथ जगदुरनीचै-राशिषस्तस्य विप्रास्तुमुल-कल-निनादं तूर्यमाजघ्नुरन्ये ।अभिमत-फल-शंसी चारु पुस्फोर बाहुस्तरुषु चुकुवुरुच्चैः पक्षिणश्चाऽनुकूलाः ॥
इति प्रकीर्ण-काण्डः प्रथमः समाप्तः
अतः परमधिकार-काण्डम्
अतः परं प्रकीर्णकाः