आशासत ततः शान्तिमस्नुरग्नीनहावयन् । विप्रानवाचयन्योधाः प्राक्कुर्वन्मङ्गलानि च ॥
अपूजयन्कुल-ज्येष्ठानुपागूहन्त बालकान्। । स्त्रीः समावर्धयन्साऽस्राः कार्याणि प्रादिशंस्तथा ॥
आच्छादयन्व्यलिम्पंश्च प्राश्नन्नथ सुराऽऽमिषम् । प्रापिबन्मधु-माध्वीकं भक्ष्यांश्चाऽऽदन्यथेप्सितान् ॥
न्यश्यन्शस्त्राण्यभीष्टानि समनह्यंश्च वर्मभिः ।अध्यासत सु-यागानि द्विषद्भ्यश्चाऽशपंस्तथा ॥
अपूजयंश्चतुर्-वक्त्रं विप्रानार्चंस्तथाऽस्तुवन् । समालिपत शक्राऽरिर्यानं चाऽभ्यलषद्वरम् ॥
आमुञ्चद्वर्म रत्नाऽऽढ्यमबध्नात्खड्गमुज्ज्ल्वलम् ।अध्यास्त स्यन्दनं घोरं प्रावर्तत ततः पुरः ॥
आघ्नन्भेरीर्महा-स्वानाः कम्बूंश्चाऽप्यधमन्शुभान् ।अताडयन्मृदङ्गांश्च पेराश्चाऽपूरयन्कलाः ॥
अस्तुवन्बन्दिनः शब्दानन्योन्यं चोदभावयन् ।अनदन्सिंहनादांश्च प्राद्रेकत हय-द्विपम् ॥
अ-निमित्तान्यथाऽपश्यन्नस्फुटद्रवि-मण्डलम् ।औक्षन्शोणितमम्भोदा वायवोऽवान्सु-दुःसहाः ॥
आर्च्छन्वामं मृगाः कृष्णाः शस्त्राणां व्यस्मरन्भटाः । रक्तं न्यष्ठीवदक्लाम्य- दखिद्यद्वाजि-कुञ्जरम् ॥
न तानगणयन्सर्वानास्कन्दंश्च रिपून्द्विषः ।अच्छिन्दन्नसिभिस्तीक्ष्णैरभिन्दंस्तोमरैस्तथा ॥
न्यकृन्तंश्चक्र-धाराभिरतुदन्शक्तिभिर्दृढम् । भल्लैरविध्यन्नुग्राऽग्रैरतृंहंस्तोमरैरलम् ॥
आस्यन्प्लवङ्गमा वृक्षानधुन्वन्भू-धरैर्भृशम् ।अहिंसन्मुष्टिभिः क्रोघाददशन्दशनैरपि ॥
प्रादुन्वन्जानुभिस्तूर्णमतुदंस्तल-कूर्परैः । प्राहिण्वन्नरि-मुक्तानि शस्त्राणि विविधानि च ॥
अतृणेट्शक्र-जिच्छत्रूनभ्राम्यच्च समन्ततः ।अध्वनच्च महा-घोरं न च कंचन नाऽदुनोत् ॥
नाऽजानन्सन्दधानं तं धनुर्नैक्षन्त बिभ्रतम् । नेषूनचेतन्नस्यन्तं हतास्तेनाऽविदुर्द्विषः ॥
अशृण्वन्नन्यतः शब्दं प्रपलायन्त चाऽन्यतः ।आक्रन्दमन्यतोऽकुर्वंस्तेनाऽहन्यन्त चाऽन्यतः ॥
प्रालोठन्त व्यभिद्यन्त परितो रक्तमस्रवन् । पर्यश्राम्यन्नतृप्यंश्च क्षतास्तेनाऽम्रियन्त च ॥
सौमित्रिराकुलस्तस्मिन्ब्रह्माऽस्त्रं सर्व-रक्षसाम् । निधनायाऽऽजुहूषत्तं व्य्ष्टभ्नाद्रघु-नन्दनः ॥
ततो माया-मयीं सीतां घ्नन्खड्गेन वियद्-गतः ।अदृश्यतेन्द्रजिद्वाक्यमवदत्तं मरुत्-सुतः ॥
"माऽपराध्नोदियं किंचिदभ्रश्यत्पत्युरन्तिकात् । सीतां राक्षस ! मा स्मैनां निगृह्णाः पाप ! दुःखिताम्" ॥
"पीडा-करम-मित्राणां कर्तव्यमिति शक्रजित् ।अब्रवीत्खड्ग-कृष्टश्च तस्या मूर्धानमच्छिनत् ॥
"यत्-कृतेऽरीन्व्यगृह्णीम समुद्रमतराम च । सा हते"ति वदन्राममुपातिष्ठन्मरुत्-सुतः ॥
ततः प्रामुह्यतां वीरौ राघवावरुतां तथा ।उष्णं च प्राणतां दीर्घमुच्चैर्व्याक्रोशतां तथा ॥
तावभाषत पौलस्त्यो "मा स्म प्ररुदितं युवाम् । ध्रुवं स मोहयित्वाऽस्मान्पापोऽगच्छन्निकुम्भिलाम् ॥
मा स्म तिष्ठत तत्र-स्थो वध्योऽस्माव-हुताऽनलः ।अस्त्रे ब्रह्म-शिरस्युग्रे स्यन्दने चाऽनुपार्जिते ॥
ब्रह्माऽदधाद्वधं तस्य तस्मिन्कर्मण्यसंस्थिते" । प्रायच्छदाज्ञां सौमित्रेर्युथपानां च राघवः ॥
तां प्रत्यैच्छन्सु-संप्रितास्ततस्ते स-विभीषणाः । निकुम्भिलां समभ्यायन्न्यरुध्यन्त च राक्षसैः ॥
दिक्-पालैः कदनं तत्र सेने प्राकुरुतां महत् ।ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्य-लक्ष्मणौ ॥
तत्रेन्द्रजितमैक्षेतां कृत-धिष्ण्यं समाहितम्। । सोऽजुहोत्कृष्णवर्त्मानमामनन्मन्त्रमुत्तमम् ॥