अच्छैत्तां च महाऽऽत्मानौ चिरमश्रमतां न च । तथा तावास्थतां बाणानतानिष्टां तमो यथा ॥
सौर्याऽऽग्नेये व्यकारिष्टामस्त्रे राक्षस-लक्ष्मणौ । ते चोपागमता नाशं समासाद्य परस्परम् ॥
अबिभ्रजत्ततः शस्त्रमैषीकं राक्षसो रणे । तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम् ॥
ततः सौमित्रिरस्मार्षीददेविष्ट च दुर्-जयम् । ब्रह्माऽस्त्रं तेन मूर्धानमदध्वंसन्नर-द्विषः ॥
ततोऽक्रन्दीद्दशग्रीवस्तमाशिश्वसदिन्द्रजित् । निरयासीच्च संक्रुद्धः प्रार्चिचच्च स्वयम्भुवम् ॥
अहौषीत्कृष्णवर्त्मानं समयष्टाऽस्त्र-मण्डलम् । सोऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयाऽऽवहम् ॥
तमध्यासिष्ट दीप्राऽग्रममोदिष्ट च रावणिः । छन्न-रूपस्ततोऽकर्तीद्देहान्रावण-विद्विषाम् ॥
सप्त-षष्टिं प्लवङ्गानां कोटीर्बाणैरसूषुपत्। । निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत् ॥
अपिस्फवत्स्व-सामर्थ्यमगूहीत्सायकैर्दिशः ।अघोरीच्च महा-घोरं गत्वा प्रैषीच्च रावणम् ॥
विभीषणस्ततोऽबोधि स-स्फुरौ राम-लक्ष्मणौ ।अपारीत्स गृहीतोल्को हत-शेषान्प्लवङ्गमान् ॥
"मा शोचिष्ट रघु-व्याघ्रौ नाऽमृषातामिति ब्रुवन् ।अवाबुद्ध स नीलाऽऽदीन्निहतान्कपि-यूथ-पान् ॥
तत्रैषज्जाम्बवान्प्राणीदुदमीलीच्च लोचने । पौलस्त्यं चाऽगदीत् "कच्चिदजीवीन्मारुताऽऽत्मजः।" ॥
तस्य क्षेमे महा-राज ! नाऽमृष्मह्यखिला वयम्। । पौलस्त्योऽशिश्रवत्तं च जीवन्तं पवनाऽऽत्मजम् ॥
आयिष्ट मारुतिस्तत्र तौ चाऽप्यहृषतां ततः । प्राहैष्टां हिमवत्-पृष्ठे सर्वौषधि-गिरिं ततः ॥
तौ हनूमन्तमानेतुमोषधीं मृत-जीविनीम् । सन्धान-करणीं चाऽन्यां वि-शल्य-करणीं तथा ॥
प्रोदपाति नभस्तेन स च प्रापि महा-गिरिः । यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्र-शः ॥
निरचायि यदा भेदो नौषधीनां हनू-मता । सर्व एव समाहारि तदा शैलः महौषधिः ॥
प्राणिषुर्निहताः केचित्केचित्तु प्रोदमीलिषुः । तमोऽन्येऽहासिषुर्योधा व्यजृम्भिषत चाऽपरे ॥
अजिघ्रपंस्तथैवाऽन्यानोषधीरालिपंस्तथा ।एवं तेऽचेतिषुः सर्वे वीर्यं चाऽधिषताऽधिकम् ॥
अजिह्लदत्स काकुत्स्थौ शेषांश्चाऽजीजिवत्कपीन् । हनूमानथ ते लङ्का- मग्निनाऽदीदिपन्द्रुतम् ॥
समनात्सीत्ततः सैन्यममार्जीद्भल्ल-तोमरम् ।अमार्क्षीच्चाऽसिपत्राऽऽदीनबभासत्परश्वधान् ॥
कुम्भकर्ण-सुतौ तत्र समनद्धां महा-बलौ । निकुम्भश्चैव कुम्भश्च प्रापतां तौ प्लवङ्गमान् ॥
अगोपिष्टां पुरीं लङ्कामगौप्तां रक्षसां बलम् ।अत्याक्तामायुधाऽनीकमनैष्टां च क्षयं द्विषः ॥
अकोकूयिष्ट तत्सैन्यं प्रपलायिष्ट चाऽऽकुलम् ।अच्युतच्च क्षतं रक्तं हतं चाऽध्यशयिष्ट गाम् ॥
अङ्गदेनाऽहसातां तौ युध्यकम्पन-कम्पनौ ।अभ्यार्दीद्वालिनः पुत्रं प्रजङ्घोऽपि स-मत्सरः ॥
तस्याऽप्यबेभिदिष्टाऽसौ मूर्धानं मुष्टिनाऽङ्गदः ।अहार्षीच्च शिरः क्षिप्रं यूपाक्षस्य निराकुलः ॥
शरीरं लोहिताक्षस्य न्यभाङ्क्षीद्द्विविदस्तदा । क्रुद्धः कुम्भस्ततोऽभैत्सीन्मैन्दं स-द्विविदं शरैः ॥
आघूर्णिष्टां क्षतौ क्ष्मां च तावाशिश्रियतामुभौ। । मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालि-सुतो नगैः ॥
प्रौर्णावीच्छर-वर्षेण तानप्रौहीन्निशा-चरः। । वानरानैजिहद्रामस्य तूर्णं रक्षितुमङ्गदम् ॥
द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं षत्रु-संकटात् । मुष्टिना कौम्भकर्णिं च क्रुद्धः प्राणैरतित्यजत् ॥