राक्षसेन्द्रस्ततोऽभैषीदैक्षिष्ट परितः पुरम् । प्रातिष्ठिपच्च बोधाऽर्थं कुम्भकर्णस्य राक्षसान् ॥
तेऽभ्यगुर्भवनं तस्य सुप्तं चैक्षिषताऽथ तम् । व्याहार्षुस्तुमुलान्शब्दान्दण्डैश्चाऽवधिषुर्द्रुतम् ॥
केशानलुञ्चिषुस्तस्य गजान्गात्रेष्वचिक्रमन् । शीतैरभ्यषिचंस्तोयैरलातैश्चाऽप्यदम्भिषुः ॥
नखैरकर्तिषुस्तीक्ष्णैरदाङ्क्षुर्दशनैस्तथा । शितैरतौत्सुः शूलैश्च भेरीश्चाऽवीवदन्शुभाः ॥
स तान्नाऽजीगणत्सर्वा- निच्छयाऽबुद्ध च स्वयम् ।अबूबुधत कस्मान्मा- मप्राक्षीच्च निशा-चरान् ॥
तेऽभाषिषत "राजा त्वां दिदृक्षुः क्षणदा-चर !" । सोऽस्नासीद्व्यलिपन्मांसमप्सासीद्वारुणीमपात् ॥
न्यवसिष्ट ततो द्रष्टुं रावणं प्रावृतत्गृहात्। । राजा यान्तं तमद्राक्षीदुदस्थाच्चेषदासनात् ॥
अतुषत्पीठमासन्ने निरदिक्षच्च काञ्चनम्। ।अस्मेष्ट कुम्भकर्णोऽल्पमुपाविक्षदथाऽन्तिके ॥
अवादीन् "मां किमित्याह्वो" राज्ञा च प्रत्यवादि सः । "माज्ञासीस्त्वं सुखी रामो यदकार्षीत्स रक्षसाम् ॥
उदतारीदुदन्वन्तं पुरं नः परितोऽरुधत् । व्यद्योतिष्ट रणे शस्त्रैरनैषीद्राक्षसान्क्षयम् ॥
न प्रावोचमहं किंचित्प्रियं यावदजीविषम् । बन्धुस्त्वमर्चितः स्नेहान्माद्विषो न वधीर्मम ॥
वीर्यं मा न ददर्शस्त्वं मा न त्रास्थाः क्षतां पुरम् । तवाऽद्राक्ष्म वयं वीर्यं त्वमजैषीः पुरा सुरान्" ॥
अवोचत्कुम्भकर्णस्तं "वयं मन्त्रेऽभ्यधाम यत् । न त्वं सर्वं तदश्रौषीः फलं तस्येदमागमत् ॥
प्राज्ञ-वाक्यान्यवामंस्था मूर्ख-वाक्येष्ववाऽस्थिथाः ।अध्यगीष्ठाश्च शास्त्राणि प्रत्यपत्था हितं न च ॥
मूर्खास्त्वामववञ्चन्त ये विग्रहमचीकरन् ।अभाणीन्माल्यवान्युक्तमक्षंस्थास्त्वं न तन्मदात् ॥
राघवस्याऽमुषः कान्तामाप्तैरुक्तो न चाऽर्पिपः । मा नाऽनुभूः स्वकान्दोषान्मा मुहो मा रुषोऽधुना ॥
तस्याऽप्यत्यक्रमीत्कालो यत्तदाऽहमवादिषम् ।अघानिषत रक्षासि परैः कोशांस्त्वमव्ययीः ॥
सन्धान-कारणं तेजो न्यगभूत्ते कृथास्तथा । यत्त्वं वैराणि कोशं च सह-दण्डमजिग्लपः।" ॥
अक्रुधच्चाऽभ्यधाद्वाक्यं कुम्भकर्णं दशाननः । "किं त्वं मामजुगुप्सिष्ठा नैदिधः स्व-पराक्रमम् ॥
मोज्जिग्रहः सु-नीतानि मा स्म क्रंस्था न संयुगे । मोपालब्धाह्कृतैर्दोषैर्मा न वाक्षीर्हितं परम्।" ॥
कुम्भकर्णस्ततोऽगर्जीद्भटांश्चाऽन्यान्न्यवीवृतत्। ।उपायंस्त महाऽस्त्राणि निरगाच्च द्रुतं पुरः ॥
मूर्ध्ना दिवमिवाऽलेखीत्खं व्यापद्वपुषोरुणा । पादाभ्यां क्ष्मामिवाऽभैस्तीत्दृष्ट्याऽधाक्षीदिव द्विशः ॥
दग्ध-शैल इवाऽभासीत्प्राक्रंस्त क्षय-मेघ-वत् । प्राचकम्पदुदन्वन्तं राक्षसानप्यतित्रसत् ॥
स-पक्षोऽद्रिरिवाऽचालीन्न्यश्वसीत्कल्प-वायु-वत् ।अभार्षीद्ध्वनिना लोका- नभ्राजिष्ट क्षयाऽग्नि-वत् ॥
अनंसीद्भूर्भरेणाऽस्य रंहसा शाखिनोऽलुठन् । सिंहाः प्रादुद्रुवन्भीताः प्राक्षुभन्कुल-पर्वताः ॥
उत्पाताः प्रावृतंस्तस्य द्यौरशीकिष्ट शोणितम् । वायवोऽवासिषुर्भीमाः क्रूराश्चाऽकुषत द्विजाः ॥
अस्पन्दिष्टाऽक्षि वामं च घोराश्चाऽराटिषुः शिवाः । न्यपप्तन्मुसले गृध्रा दीप्तयाऽपाति चोल्कया ॥
आंहिष्ट तान-संमान्य दर्पात्स प्रधन-क्षितिम् । ततोऽनर्दीदनन्दीच्च शत्रूनाह्वास्त चाऽऽहवे ॥
प्राशीन्न चाऽतृपत्क्रूरः क्षुच्चाऽस्याऽवृधदश्नतः ।अधाद्वसामधासीच्च रुधिरं वन-वासिनाम् ॥
माम्सेनाऽस्याऽश्वतां कुक्षी जठरं चाऽप्यशिश्वियत् । बहूनामग्लुचत्प्राणा- नग्लोचीच्च रणे यशः ॥