Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 15 (Kāṇḍa 15) • Sūkta 17

Kāṇḍa 15 Sūkta 17

काण्डम् 15 • सूक्तम् 17

Kāṇḍa 15 Sūkta 17 of the Shaunaka Saṁhitā of Atharvaveda with 10 mantras.

Total: 10 Verses • Citations: AV 15.17.1–10 • 2 Lexicon Terms
१-१० अथर्वा। अध्यात्मं, व्रात्यः। १, ५ प्राजापत्या उष्णिक्, २, ७ आसुरी अनुष्टुप्, ३ याजुषी पङ्क्तिः,
४ साम्नी उष्णिक्, ६ याजुषी त्रिष्टुप्, ८ त्रिपदा प्रतिष्ठाऽर्ची पङ्क्तिः,
९ द्विपदा साम्नी त्रिष्टुप्, १० साम्नी अनुष्टुप्।
तस्य॒ व्रात्य॑स्य । योऽस्य प्रथ॒मो व्या॒नः सेयं भूमिः॑
तस्य॒ व्रात्य॑स्य । योऽस्य द्वि॒तीयो॑ व्या॒नस्तद॒न्तरि॑क्षम्
तस्य॒ व्रात्य॑स्य । योऽस्य तृ॒तीयो॑ व्या॒नः सा द्यौः
तस्य॒ व्रात्य॑स्य ।योऽस्य चतु॒र्थो व्या॒नस्तानि॒ नक्ष॑त्राणि
तस्य॒ व्रात्य॑स्य । योऽस्य पञ्च॒मो व्या॒नस्त ऋ॒तवः॑
तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठो व्या॒नस्त आ॑र्त॒वाः
तस्य॒ व्रात्य॑स्य । योऽस्य सप्त॒मो व्या॒नः स सं॑वत्स॒रः
तस्य॒ व्रात्य॑स्य । स॒मा॒नमर्थं॒ परि॑ यन्ति दे॒वाः सं॑वत्स॒रं वा ए॒तदृ॒तवो॑ऽनु॒परि॑यन्ति॒ व्रात्यं॑ च
तस्य॒ व्रात्य॑स्य । यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यां चै॒व तत् पौ॑र्णमा॒सीं च॑
तस्य॒ व्रात्य॑स्य । एकं॒ तदे॑षाममृत॒त्वमित्याहु॑तिरे॒व
← Previous (Ch. 505) Full Table of Contents Next (Ch. 507) →