Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 15 (Kāṇḍa 15) • Sūkta 18

Kāṇḍa 15 Sūkta 18

काण्डम् 15 • सूक्तम् 18

Kāṇḍa 15 Sūkta 18 of the Shaunaka Saṁhitā of Atharvaveda with 5 mantras.

Total: 5 Verses • Citations: AV 15.18.1–5 • 2 Lexicon Terms
अध्यात्म-प्रकरणम्।
१-५ अथर्वा। अध्यात्मं, व्रात्यः। १ दैवी पङ्क्तिः, २-३ आर्ची बृहती, ४ आर्ची अनुष्टुप्, ५ साम्नी उष्णिक्।
तस्य॒ व्रात्य॑स्य
यद॑स्य॒ दक्षि॑ण॒मक्ष्य॒सौ स आ॑दि॒त्यो यद॑स्य स॒व्यमक्ष्य॒सौ स च॒न्द्रमाः॑
योऽस्य॒ दक्षि॑णः॒ कर्णो॒ऽयं सो अ॒ग्निर्योऽस्य स॒व्यः कर्णो॒ऽयं स पव॑मानः
अ॒हो॒रा॒त्रे नासि॑के॒ दिति॒श्चादि॑तिश्च शीर्षकपा॒ले सं॑वत्स॒रः शिरः॑
अह्ना॑ प्र॒त्यङ् व्रात्यो॒ रात्र्या॒ प्राङ् नमो॒ व्रात्या॑य
← Previous (Ch. 506) Full Table of Contents Next (Ch. 508) →